पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३०४ श्रोवीरराघवाचार्यविरचितपरिष्कारयुक्ता अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्य ध्यानान्तःस्थस्य ललाटात् त्र्यक्षः शूलपाणिः पुरुषो जायते बिभ्रच्छ्रिंयम् । यशः सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्य सप्रणवा व्याहृत्य ऋग्यजुः सामाथर्वाङ्गिरसः सर्वाणि छन्दांसि ; तान्यङ्गे समाश्रितानि । तस्मादीशानो महादेवो महादेवः। अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्य ध्यानान्तःस्थस्य ललाटात् स्वेदोऽपतत् । ता इमाः प्रतता आपः। तत- स्तेजो हिरण्मयमण्डम् । तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत् पूर्वाभि- मुखो भूत्वा ; भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता। पश्चिमाभिमुखो भूत्वा ; भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता उत्तराभिमुखो भूत्वा ; स्वरिति व्याहृतिर्जागतं छन्दः सामवेदः सूर्यो देवता । दक्षिणाभिमुखो भूत्वा ; महरिति व्याहृतिरानुष्टुभं छन्दोऽथर्ववेदः सोमो देवता। सहस्रशीर्षं देवं सहस्राक्षं विश्वशंभुवम् । विश्वतः परमं नित्यं विश्व नारायण हरिम् ।। नारायणापेक्षया निकृष्टस्यापि महादेवस्य चतुर्मुखापेक्षयाऽन्यतिशयो विद्यते । अत एव हि त्रिषु ब्रह्मणः पारम्यपक्षे निविष्टा नैव लक्ष्यन्ते लोके । विवादस्तु नारायणस्य महादेवस्य वा कतरस्य पारम्यमित्येवेत्याशयेन चतुर्भुखात् प्रागेव महादेवं महापुरुषलम्भितजन्मभूमानं श्रुतिराह अथेति । एतावताऽस्य ब्रह्मापेक्षया पूर्वोत्पन्नत्वं न मन्तव्यमिति ज्ञापनाय पूर्व नास्येत्यादि- वाक्यम्। देवतेति वाक्येषु अजायन्तेत्यध्याहारः । भूत्वेत्यत्र अध्यायदित्यस्यानुषङ्गः । सहस्रशीर्षमित्यादि प्रथमान्तं कल्प्यम् । यद्वा द्वितीयान्तमेव ; उपजीवतीत्यत्रान्वय-