पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः श्रीमते नारायणाय नमः नारायणोपनिषत् ॥ [ओम् सह नाववत्विति शान्तिः । ओम् । अथ पुरुषो ह वै नारायणोऽकामयत, प्रजाः सृजेयेति । नारायणात् प्राणो जायते ; मनः सर्वेन्द्रियाणि च ; खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी। नारायणात् ब्रह्मा जायते । नारायणद्रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणात् प्रजापतिः प्रजायते ! नारायणाद् द्वादशादित्या रुद्रा वसवः । सर्वाणि च्छन्दांसि नारायणादेव समुत्पद्यन्ते । नारायणात् प्रवर्तन्ते । नारायणे प्रलीयन्ते । एतदृग्वेदशिरोऽधीते ॥१॥ 1. शिरोऽधीते इति चतुर्षु स्थलेष्वपि, “शिरो योऽधीते' इत्यधीयते. . श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । नारायणोपनिषत्परिष्कारः। श्री श्रीनिवासकरुणकनिरूढभूम वेदान्तलक्ष्मणयतीन्दकटाक्षलक्ष्यम् । श्रीरङ्गलक्ष्मणमुनि प्रणिपत्य मूर्ध्ना नारायणोपनिषदश्च परिष्करोमि ।। वेदेषु सर्वेष्वपि पठ्यमाने पुरुषसूक्तेऽन्यत्र च पुरुष इति यः प्रसिद्धः पुरुषोत्तमः, स एव, नारायण इत्यपि नानाम्नाय प्रसिद्धः । भगवन्मन्त्रेषु व्यापकमन्त्रास्त्रयः प्रधानभूताः । प्रधान तमस्तु श्रीमदष्टाक्षरनामा नारायणमन्त्रः । विष्णुगायत्री च विष्णुनारायणवासुदेवपदेषु नारायणपदमेव प्रथमतो गृह्णाति । वासुदेवपदमपेक्ष्य विष्णुपदं विश्वतः श्रुतिषु प्रयुक्तम् । ततोऽपि नारायणपदमेवाधिकतरमभ्यस्यते । नारायणपदस्य निरङ्कुशो महिमा निखिलापेक्षितार्थनिरूपणक्षमता च रहस्यग्रन्थतो यथावदधिगन्तव्यौ। तदियं नारायणोपनिषत् निखिलवेदवेद्यतया निरवधिकप्रभावनारायणमन्त्रोपास्यतया च तमेव पुरुषं नारायणं प्रतिबोधयितुं तस्य ब्रह्मरुद्रादिसर्वजगत्कारणत्वं सर्ववस्त्वात्मभावश्च यथावत् प्रथममाह अथ पुरुष इत्यादिना । ब्रह्मरुद्रादीनां प्रजानां प्राण-करण-पञ्चभूतमयकलेवरकलितजनितया प्रथमतः प्राणाद्युत्पत्तिमपि नारायणादाह नारायणादिति । अत्र निमित्तवदुपादानत्वस्यापि विवक्षितुं युक्तत्वात् नारायण- पदानि यथाह चेतनाचेतनात्मकसूक्ष्मविशेषणविशिष्टपराणि भाव्यानि । एवं नारायणस्य सर्वकारणत्वमधिगमितम् । (१)