पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नारायणोपनिषत् ३०७ अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः। कालश्च नारायणः । दिशश्च नारायणः । विदिशश्व नारायणः । ऊर्ध्वं च नारायणः । अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेदँ सर्वम् , यद् भूतं यच्च भव्यम् । निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद, स विष्णुरेव भवति । एतद्यजुर्वेदशिरोऽधीते ॥ २॥ ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् ॥ नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद्वै नारायणस्याष्टाक्षरं पदम् । यो ह वै नारायणस्याष्टाक्षरं पदमध्येति, अनपब्रुवः सर्वमायुरेति ; विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । अथ सर्वोपादानत्वाद्युपयुक्तं शरीरात्मभावनिबन्धन सार्वात्म्यं तस्याऽऽह अथ नित्य इति । अन्यत्र च श्रुतिषु जन्मस्थितिलयहेतुत्वपुरस्सरं सार्वात्म्यमुदधुष्यते । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्व' मिति ; 'सर्वं खल्विदं ब्रह्मा तज्जलानिति' इति च । नित्यो नारायण इत्यस्य ब्रह्मादिवत् स न नश्यतीत्यर्थः । अथवा उपरितनवाक्यैकरस्याय, नित्यसूर्यात्मा नारायण इत्यर्थो ग्राह्यः । विष्णुरेव विष्णुसमः । (२) अथ तदुपासनोपयुक्तं मन्त्रमाह ओमिति । अष्टाक्षरं पदमिति । पद्यते प्रतिपाद्यते तत्त्वहितपुरुषार्थमयं प्रमेयमनेनेति पदमिदं वाक्यरूपमेव ग्राह्यम् । तथा च प्रयोगः, 'कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः' इति । इमानि श्रुतिवाक्यानि मनसिकृत्य च श्रीमति रहस्यत्रयसारे पद्यं न्यबन्धि, 'तारं पूर्वं तदनु हृदयं तच नारायणाये. त्याम्नायोक्तं पदमक्यतां सार्थमाचार्यदत्तम् । ' इति । अत्र तच्च = नानाश्रुतिप्रसिद्धश्च नारायणेति तृतीयं पदमक्यतामिति व्याख्यान्ति । तथा च पूर्वं तारं प्रणवमवयतां तदनु हृदयं नम.पदमक्यताम् , अथ तत् नारायणेति च पदमवयतामिति व्याख्यातृसंमतोऽन्वयक्रमः । अत्रान्यविधेऽन्वय एव औचित्यं पश्यन्ति, यथा-पूर्व तारं भवति . तत् अनु = ततः पश्चात् हृदयं भवति । तच्चेत्यत्र अनु इत्येतदनुकृष्यते । तच्चानु = नमः- पदानन्तरश्च नारायणति पदं भवति । इत्याम्नायोक्तम् 'ओमित्यग्रे व्याहरेदित्यादिप्रकृतश्रत्या एवं बोधितं पदं नारायणस्याष्टाक्षरं पदमिति पदशब्दोपात्तं मन्त्रमयतामिति । ननु तारमिति नपुंसकं प्रणवरूपाथें अप्रसिद्धमिति चेन्न- तथा सति श्रुताविव लोकेऽपि, तारं व्याहरेदिति