पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । एतत् सामवेदशिरोऽधीते ॥ ३ ॥ प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार उकारो मकार इति । तानेकधा समभरत् तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ओम् नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं' गमिष्यति । तदिदं पुण्डरीक विज्ञानधनम् । तस्मात्तडिदाभमात्रम् । ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरुच्यते ।। इति । सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम् । एतदथर्वशिरोऽधीते ॥ ४॥ 1. भुवनलोकं .. मधुसूदनों.


पदाध्याहारसंभवात् । तदनु इति च समस्तं पदमस्तु । तदेकदेशस्य अनु इत्यस्योपरि विभज्यानुषङ्गोऽस्तु । वस्तुतस्तु तारपदं नपुंसक प्रसिद्धमेव । यथा अथर्वशिरसि, 'स ओङ्कारः यः प्रणवः- सोऽनन्तः योऽनन्तः तत् तारम्' इति, 'अथ कस्मादुच्यते तारम् ? यस्मादुचार्यमाण एवं गर्भजन्मव्याधिजरामरणसंसारमहाभयात् तारयति, त्रायते च, तस्मादुच्यते तारम्' इति च स्पष्टं नपुंसकमेव निर्दिष्टम् । (३) प्रणवे अक्षरविभागं दर्शयत्ति प्रत्यगिति । अकारोकारमकारात्मक प्रणवस्वरूपं प्रत्यगानन्दब्रह्म प्रतिपादयतीत्यर्थः। अकारवाच्यब्रह्मैकशेषभूतः प्रत्यगात्मेति प्रणवार्थः। तच्छेषत्वं च तदतिशयावहत्वं तदानन्दहेतृव्यापारकारिणि प्रत्यगात्मन्यस्तीति भवति ब्रह्म प्रत्यवधीनानन्दशालि । अतः तत् प्रत्यगानन्दम् । अथवा प्रत्यक् - स्वस्मै स्वयं प्रकाशमानम् । उकारोऽवधारणार्थः; लक्ष्मीवाचको वा। पुण्डरीकं शुभ्रम् । उत्कृष्ट वा । यथा बृहदारण्यके आदित्यमुपतिष्ठमान आह-( ८.३.)- 'दिशामेकपुण्डरीकमसि । अहं मनुष्याणामेकण्डरीकं भूयासम्' इति । तटिदाभमात्रं कार्त्स्येन ज्योतिर्मयम् । तमसः परस्तात् स्थिते वैकुण्ठभुवने तमसः क्वचिदपि न प्रसक्तिः । तदीयज्योतिर्मयत्वपरिशीलने प्रकृतिरियं तमोवत् अन्धकारवत् अध्यक्सेया भवतीति तम इत्युच्यते । नारायणमिति, गमिष्यतीत्यत्रान्वेति । (४)