पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्री
पद्मावतीदेवीसमेतश्रीनिवासपरब्रह्मणे नमः
भूमिका

श्रीपरमहंसपरिव्राजकानां श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौमानां श्रीमन्निगमान्तमहादेशिकप्रवर्तिनसंप्रदायनिर्वहणधूर्वहाणां निखिलविबुधनिरन्तरस्तूयमानविशदव्याख्यानकौशल—विशेषार्थवितरणचणविशिष्टानेकप्रबन्धनिर्माणप्रख्यातप्रावी- ण्यानाम् उभयवेदान्ताचार्याणां श्रीमतां श्रीकोळियालं स्वामिन इति विख्यातानां श्रीरङ्गरामानुजयतीन्द्राणां महादेशिकानां श्रीचरणनलिनवरिवस्यालब्धसर्ववेदान्तार्थोऽहम् , तेषामेव निदेशमवतंसयन् उभयवेदान्तग्रन्थमालाग्रथनप्रवृत्तः द्रमिडदिव्यप्रबन्ध- व्याख्यानप्रकाशनेन सह प्रथमतः परममूलभूतानामुपनिषदां विशिष्टाद्वैतसिद्धान्तानुसारिभाष्यभूषितानां मुद्रणमुपक्रम्य श्री उ. वे. सिद्धान्तप्रचारचक्रवर्ति-कू-श्रीरङ्गरामानुचक्रवर्तिस्वामिनां द्रविणेन प्रथमसरं प्रकाश्य, तेषामन्येषां च साहाय्येन द्वितीयमप्याविष्कृत्य, तावदेवैतन्मुद्रणप्रकाशनार्थकल्पितया विशिष्टाद्वैतभाष्यप्रचारसमित्या सुबहुबद्धश्रद्धया समुत्साहितः तृतीयमपि सरं प्रकटीकृत्य, तत्समित्यध्यक्षाणां सुगृहीतनामधेयानां श्री उ. वे. वी. वी. श्रीनिवास अय्यङ्गार् महाशयानामाशयमवतंसितवतां तत्समितिकार्यनिर्वाहाध्यक्षाणां वेदभाष्यविदां विख्यातानां श्री उ. वे कुम्भघोणराजकीयकलाशालाभूतपूर्वाध्यक्षाणां Principal पाट्राचार्यमहोदयानां तथा कार्यदर्शिनां उ. वे. रावबहद्दूर् (गूडलूर् ) जि-रङ्गस्वामिअय्यङ्गार् महाशयानां तीव्रतमेनोद्यमेन प्रोत्साहितानां तिरुमलै तिरुपति श्रीवेङ्कटेश्वरदेव-स्थानसमिति-तन्मूलकार्यनिर्वाहधुरन्धर (Sri Anna Rao) महाशय-तदीयप्राच्यविद्यविमर्शाल्यप्रधानाध्यक्ष (Sri P. V. Ramanujaswami) महाशयप्रभृतीनां परिपूर्णेन आदरणेन तदीये एव मुद्रणालये तद्द्रविणव्ययेनैव तद्विमर्शालयकार्यात्मनैव सभाष्यं छान्दोग्यं बृहदारण्यकमवशिष्टोपनिषद्भाष्यजातञ्चेति त्रीन् संपुटान् अमुद्रयम् । एवमुपनिषन्मुद्रणमुद्दिष्टं तावत् तैरेव सर्वैरित्थं मां पुरस्कृत्य