पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्रह्मादिः पूर्वजातः पुरुष इह हविः कल्पितः तत्प्रसन्नो भूयो यष्टुं व्यधास्त्वं श्रितरम ! पृषदाज्यादि यज्ञोपयुक्तम् । तेनाप्याराधितस्त्वं तदनु निजशरीरांशदेशाद् व्यतानीः वेदान् अवादिकान् नन् विधिमुखकरणाद्याधिदेवांश्च लोकान् ॥ १९८

अज्ञातानेकसर्गोचितपथमखिलाम्नायहीनं कथञ्चित् ___ यज्ञेनाराध्य लक्ष्मीहयवदन ! वृषाद्रीश ! संपन्नवेदम् । तं त्वं त्वञ्चित्तनाभ्यादित इव बहुधा स्वागतोऽन्यानि सृष्ट्वा ___ नानासर्गै नियुङ्क्षे स्वयमपि विशसि ज्येष्ठपुत्रं तथाऽन्यान् ॥ १९९

संज्ञामूर्ती त्रिवृत्कृत् त्वमिह कुरुष इत्येष विष्कम्पितोऽर्थः किन्तु ब्रह्मान्तरात्मा कुरुष इति विधेः स्रष्टुतार्थेऽभ्यधायि । विस्पष्टे त्वत्कृतत्वे किमिति विधिरिह स्यात् प्रवेश्यस्तदेष __श्रीश ! त्वत्सृष्टभिन्न सृजतु निजनिशान्तेषु चाङ्गादशेषम् ॥ २००

वेधाः श्रीधामवक्षः ! प्रभवति भवता नाभिनालीकसुप्तः कल्पारम्भे महाम्भस्युपरि हि धरणौ स्थापितायां कृते च । तत्तल्लोके विधातुम्, तदुपकृतिरिय युज्यतेऽस्याऽऽदिसर्गै यद्वा तद्द्वारतस्त्वं सृज सकलमिदं सोऽपि ते शक्तिभूमा ॥ २०१

प्रारम्भे प्रब्रुवंस्त्वां पुरुष इति विरासृष्टिमुक्त्वाऽऽह जीवं श्रीधामन् ! ब्रह्ममुख्यं पुरुषमथ मनुष्यादिदेहं यदेवम् । तस्मादन्ते महान्तं पुरुषमिति विशिष्याऽऽह पुंसूक्तमेवं त्वत्तो ब्रह्माऽश्ववक्त्रादधिगतमहिमेत्यादिमेष्टाऽश्वसृष्टिः ।। २०२

पुंसूक्तं मुद्गलाख्योपनिषदि विवृतम् , तेन ते श्रीश ! भूमा चातुर्व्यूह्यं चतुष्पात् प्रकृतिपुरुषयोरुद्भवश्वानिरुद्धात् । ध्यानात्मा सृष्टियज्ञो विधिकृत इदमक्षाणि यष्टार एवं सृष्टेतस्थोपदेष्टा यजनभुगनिरुद्धोऽयमित्यादिरूक्तः ।। २०३