पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

[येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ ] श्रीरङ्गरामानुजस्वामिविरचितं पुरुषसूक्तभाष्यम्

  • अतसीगच्छ सच्छायमञ्चितोरःस्थलं श्रिया ।

अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। प्रसङ्गात् पुरुषसूक्तभाष्यमपि लिख्यते (१) । यतः प्रपञ्चसंभूतिविभूतिपरिभूतयः । पुरुषाय नमस्तस्मै परस्मै विस्मयात्मने । तं प्रणम्यादिपुरुष जगतामादिकारणम् । दुर्ज्ञानं पौरुषं सूक्तं व्याकरोमि यथामति । श्रोपाद्मे पुराणे 'इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । अतः श्रुतिभ्यः सर्वाभ्यो बलवत समुदीरितम् । इदं पुरुषसूक्तं हि यजुष्यष्टादशश्च्चकम् । ऋग्वेदे षोडशर्च्च स्यात् पञ्च वाजसनेयके । सामवेदे तु सप्तश्च तथैवाथर्वणेऽपि च ।' वेदेषु याजुषं वेदमवलम्ब्य वदाम्यहम् । मदर्वाचीनतां प्रेक्ष्य नोपेक्षन्तां मनीषिणः । श्रुतिषु प्रबला [मन्त्रा?] स्तेष्वप्यध्यात्मवादिनः । तत्रापि पौरुष सूक्तं न तस्मात् विद्यते परम् ।

  • अस्य श्लोकस्य मातृकायामभावेऽपि अस्य प्रायः श्रीरङ्ग रामानुजस्वामिप्रणं तसर्वग्रन्थोपक्रमे उपलम्भार्दौचित्यादिह घटनं कृतम् । अशुद्धिवहुलैव मातृकात्रोपलब्धा । अथापि

यथाशक्ति शोधनं कृत्वा प्रकाश्यते । मद्रनगरप्राच्यमातृकाकोशालये मातृका द्रष्टव्या अत्र प्रसङ्गादित्युपक्रमात् इतः प्राक् प्रणीतं किमिति विमृश्यम् । अन्तेऽपि द्रष्टव्यम् ।