पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तभाष्यम् (ऋषिच्छन्दोदेवताविनियोगफलप्रदर्शनम् ) तत्त्रैव भगवान् शौनकः- पुरुषसूक्तस्य ऋषिर्नारायणः स्मृतः । छन्द आनुष्टुभं सूक्तं तिस्रोऽन्त्यात्रिष्टुभो मताः । परमव्योमवासी च पुरुषो देवताऽभवत् । प्रथमां विन्यसेत् वामे द्वितीयां दक्षिणे करे । तृतीयां वामपदे च चतुर्थीं दक्षिणे तथा । पञ्चमीं वामजानौ तु षष्ठीं दक्षिणके तथा । सप्तमीं वामकठ्यां तु अष्टमीं दक्षिणे तथा । नवमीं नाभिदेशे तु दशमीं हृदये तथा । एकादशीं कण्ठदेशे द्वादशीं वामबाहुके । त्रयोदशीं दक्षिणे तु आस्यदेशे चतुर्दशीम् । अक्ष्णोः पञ्चदशीं न्यस्य षोडशीं मूर्ति विन्यसेत् । एवं न्यासविधिं कृत्वा पञ्चाङ्गानि समालभेत् । प्रायश्चित्तं जपे चैव विष्णोराराधने तथा । मोक्षे वश्येऽन्युपस्थाने सुपुत्रप्रापणेऽपि च । सर्वकामफलावाप्तावारोग्ये मृत्युनाशने । एतेष्वर्थेप्विदं सूक्तं मुनयो विनियुञ्जते । प्रायश्चित्तेत द्वाघूलः – 'यत्यत्र कर्मभ्रेषो यजुर्भ्रेषो वा, तत्रतत्र पुरुषं ध्यायेत् । पुरुषसूक्तमुच्चरेत् । पूर्णत्वात् पुरुष इति विज्ञायते । यमस्मृतौ - ब्रह्मयज्ञे जपेत् सूक्तं पौरुषं चिन्तयन् हरिम् । स सर्वान् जपते वेदान् साङ्गोपाङ्गान् द्विजोतम । जप्त्वा तु पौरुष सूक्तं मुच्यते गुरुतल्पगः । ...