पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ श्रीरङ्गरामानुजमुनिविरचितं स्तातः -- EIRO सकृज्जप्त्यास्यवामीयं शिवसङ्कल्पमेव च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः । बोधायनम् --- मातृदुहितृस्नुषास्वसृसवर्णाविधवागमनादौ जले निमज्जन् चिन्तयन् पुरुषं सूक्तं त्रिरुचारयेत् , तदानीमेव पूतो भवति । विष...स्तात् पवित्राणि यथाशक्ति जपेत् विशेषतः शब्दाभ्यां सदृशीमि. ऋग्विधाने शौनको वदति पुरुषस्य हरेः सूक्तं सर्वपापप्रणाशनम् । वक्ष्ये पुरुषसूक्तस्य विधानं चार्चनं प्रति आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम् । द्वितीययाऽऽसनं दद्यात् पाद्यं चापि तृतीयया । चतुर्थ्याऽघ्यं प्रदातव्यं पञ्चम्याऽऽचमनीयकम् । षष्ट्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च । यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च । दशम्या पुष्पदानं स्यादेकादश्या तु धूपकम् । द्वादश्या दीपदानं स्यात् त्रयोदश्या हविस्तथा । चतुर्दश्याऽजलिं कुर्यात् पञ्चदश्या प्रदक्षिणम् । षोडश्योद्वासनं कुर्यादेवमाराधयेद्धरिम् । स्नाने वस्त्रे निवेद्ये च दद्यादाचमनीयकम् । दद्यात पुरुषसूक्तेन यः पुष्पाण्यप एव वा। अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् । मोक्षे योगवासिष्ठे संसारान्मोक्षमिच्छन् यः संत्यजेदेषणात्रयम् । निस्पृहः सर्वकामेभ्यः समलोष्टाश्मकाञ्चनः । गुरोः पादौ तु संगृह्य स्वाचम्य प्रयतो भवेत् । ज्योतिरधिकरणश्रुतप्रकाशिकायां योगवासिष्ठात् बचनान्तरनुदाहृतम् । ,

.