पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तभाष्यम् ३१३ नमश्च पावनं कृत्वा सन्त्यजेदेषणात्रयम् । ततो गच्छन् हरेर्वेश्म पावनं सुमनोहरम् । ततो मनोगतान् कामान् सर्वान् त्यक्त्वा प्रसन्नधीः । अनिकेतः स्थिरमतिरादिदेवे जनार्दने । येन केन चिदाच्छन्नो येन केनचिदाशितः । मेघच्छन्न इवादित्यो भस्मच्छन्न इवानलः । आत्मानं गृहमानस्तु सर्वभूतदयान्वितः । निर्ममो निरहकारः समदुःखसुखः क्षमी । एकान्ती यतचित्तात्मा त्यक्तसर्वपरिग्रहः । ध्यायन्नारायणं देवं हृदयाम्भोजमध्यगम् । दिग्देशकालावस्थाद्यैरनवच्छेद्यवैभवम् । सर्वदा पौरुषं सूक्तं मनसैव जपेच्छुचिः' ।। इति । किञ्च योगवासिष्ठे

यः पौरूषस्य सूक्तस्य जानात्यर्थ यथा तथा ।

स जन्मनीह मुक्तस्स्यात् पुराणेषु च दर्शनात् । विष्णुः पुरुषसूक्तार्थः पुरुषोऽध्यवसीयते ।' उत्तरभागाध्याये - सर्वं वशं मम भवेदिति सञ्चिन्तयन् मुनिः । जपेत्तु पौरुषं सूक्तं प्रणिपत्य जनार्दनम् । यद्वशे वर्तते कृत्स्नं चराचरमिदं जगत् । वशे भवति तस्येदं जगत् सर्वं मुनेरपि ।' इति । आपस्तम्बः 'सहस्रशीर्षा पुरुः इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते।' उपहिताम् = इष्टकाभिः कृतोपधानामित्यर्थः ।

AN