पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तभाष्यम् ३१५ दिग्देशकालावस्थाधैरनवच्छेद्यवैभवः । वृद्धिक्षयविहीनश्च सत्यकामो निरञ्जनः । विनेन्द्रियेण सर्वज्ञो विना पादेन सर्वगः । अनासोऽनुभवन् गन्धान स्पृशन् सर्वमपाणिकः । शृण्वन् श्रुतिं विना शब्दमजिह्वो लेलिहन् रसम् । साधनेन विना साध्यं सर्वं संसाधये न्वहम् । तस्मात् सर्वत्रमाणैन्तु सुदुर्ज्ञानतरो न्वहम् । मम रूपमविज्ञाय लोके मोक्षो न सिध्यति । तस्मात् संसारचक्रेऽस्मिन् भ्राम्यन्त्येते सुदुस्तरे । उद्धरेयमिमान् सर्वान् यातायातशताकुलान् । इति संचिन्त्य मनसा स्वच्छन्दोपात्तविग्रहम् । हित्वौपनिषदं रूपं प्रमाणानामगोचरम् । सर्वेषां स्तुतिभिर्योज्यं दृष्टमात्रेण मोक्षदम् । सर्वकल्याणसंपूर्णं गुणराशिसमाश्रयम् । सहस्रावयवोपेतमाददे रूपमद्भुतम् ।' इति । ब्रह्माण्डपुराणे क्षीराब्धिवर्णने --- उक्तच न ते रूपमित्यादि 'सहस्रकन्धरं चारुं तुङ्गोरःस्थलमुन्नतम् । सहस्त्रबाहुसंयुक्तमिन्दिरावस्मन्दिरम् ॥' इति च । श्रीभूमी यस्य देव्यौ सकलमुनिवराः किंकराः रक्ष्यमण्डं सृष्टयाद्याः शिल्पलीलाः कमलजविबुधाः पुत्रपौत्रादयोऽपि । वैकुण्ठं नाम धाम स्तुतिकृदुपनिषच्छासनं शास्त्रवर्गः सोऽयं वैकुण्ठ (नाथः ?] श्रियमतिशयिनीं वैष्णवीं नो ददातु ।