पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्री: श्रीमते पुरुषाय नमः। पुरुषसूक्तम्। . हरिः ओम् सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषः -। सहस्रशब्दोऽनन्तवचनः । सहस्राणि शिरांसि, सहस्राण्यक्षीणि, सहस्र पादाः यस्य सहस्रशीर्षा सहस्राक्षः सहस्रपादुक्तः । ‘शीर्षन् छन्दसी' ति शिरश्शब्दस्य शोर्षन्नादेशः । गीयते हि 'अनन्तबाहूदरवक्त्रनेत्र मिति । श्रीः श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । पुरुषसूक्तभाष्यपरिष्कारः। यो हि व्यूह्य विरिञ्चादि सृजत्याश्रितमुक्तिदः । महते पुरुषायास्मै परस्मै श्रीमते नमः ॥ १ ॥ अयि हृदय ! किमर्थं क्लिश्यसे कल्मषाणां हरणमतिपवित्रं पौरुषं सूकमस्ति । अधिगमयति स श्रीरङ्गरामानुजन्मा यतिपतिमतवर्त्माभ्यादरवैतदर्थम् ॥ २ ॥ सर्वत्र वेदे श्रुतमादरार्हं स्मृतीतिहासादिविर्वेचितार्थम् । शारीरके सूक्तमिदं न नूनं मीमांसितं ब्रह्मपरत्वदार्ढ्यात् ॥ ३ ॥ यद्यपि ज्योतिरधिकरणश्रुतप्रकाशिकायाम् , 'पुरुषसूक्तं कस्मात् सूत्रकारेण न निरूपित मित्याशङ्कय, संदेहाभावादिति समाहितम् – अथापि चिदचिद्विलक्षणपुरुषविशेषपरत्वविषये संशयलेशस्याप्यभावेऽपि तत्तन्मन्त्रघटकपदवाक्यार्थतद्योजनाप्रकारनिर्धारणं दुष्करमेव लक्ष्यते । अर्थवर्णनार्थप्रवृत्तेषु स्मृतीतिहासपाश्चरात्रग्रन्थेषु नैकरूप्यमुपलभ्यते । अधिकतममुपयुज्यमानस्य चास्यार्थोऽवश्यमेवाधिगन्तव्यः, 'योऽर्थज्ञ इत् सकलं भद्रमश्नुते' इति श्रुतेः । अत इदमपि सूक्तं भाषितम् । पुरुषसूक्तभाष्यमिदमेतावता कालेन अलब्धप्रकाशं श्रीरारामानुज स्वामिनिर्मि- तत्वेन प्रथमानं नूनमुपनिषद्भाष्यकार श्रीरङ्गरामानुजस्वामिकृतमेवेति औचित्यादाशेरते। निरूपण- शैल्यामीषद् भेदोऽस्तीत्येतत् पुनरीषत्करम् । अबाधितार्थत्वाच्चादरणमवश्यमर्हति । अत्रोपक्रमे प्रसङ्गादिति निर्देशात किमिदं भाष्यं ग्रन्थान्तमध्यनिविष्टम्, स्वतन्त्रं ति विमृश्यमस्ति । ग्रन्थान्तेऽपि द्रष्टव्यम् ।