पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् - पादशब्द उपलक्षणार्थः । सर्वत पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । । मन्त्रान्तरं च भवति, 'विश्वतश्चक्षुस्त विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ' इति । पादादयो भगवत एव सङ्कल्पविकल्पकल्पिताप्राकृततेजोमयदेहगता उच्यन्ते । यद्वा त्रैलोक्यशरीरत्वादस्य सुरनरतिर्यङ्गताः पादादयः तदीया इत्युपचर्यन्ते । यद्वा पादादिकार्यगमनदर्शनवचनादिलक्षणार्थः । तेन सहस्रपात्त्वेन सर्वगतत्वं सहस्राक्षत्वेन सर्वदर्शित्वं सहलशीर्षत्वेन सर्वाधारत्वञ्च, सर्वलोकाभिषिक्तत्वञ्च सर्वमुखप्रदानत्वम् (ञ्च) सर्वरक्षणप्रतिश्रवणस्वञ्च सर्वरक्षापेक्षाश्रवणत्वच्च, (१) केशादिपादान्तोक्तत्वात् सर्वावयवत्वेऽपि सहस्रत्वं चोक्तम् । अक्षोपलक्षणेन पञ्चेन्द्रियत्वोक्तं (?) सिद्धम् । तथा च श्रुतिः -- 'अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः' इति । 'गामाविश्य च भूतानि धारयाम्यहमोजसा ' इत्यादि च । यद्वा सर्वाधिकत्वं सर्वज्ञत्वं सर्वशक्तित्वं च -- सिद्धम् । 6 - पुराणत्वात् पुरुषः। तथा च श्रूयते - अन्तरतः कूर्म भूतँ सर्पन्तं तमब्रवीत् । मम वै त्वाँसा समभूत् । नेत्यब्रवीत् - [पुनश्च भगवान् कूर्मरूप: प्रत्याह । ] --- पूर्वमेवाहमिहासमिति । तत् पुरुषस्य पुरुषत्वम् । सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपाद् भूत्वोदतिष्ठत् ' इति । यद्वा पूर्णत्वात् पुरुषः ।, तेनेद पूर्णं पुरुषेण सर्व । मिति श्रुतेः । यद्वा शरीराख्ये पुरि शयनात् पुरुषः । शकारस्य षकारादेशः । श्रीविष्णुस्मृतौ, पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः । तस्मात् पुरुष इत्येष प्रोच्यते तत्त्वचिन्तकैः ॥' इति । यद्वा पुरुशब्दो बहुपरः । वन पण संभक्तौ । बहूनां बहुभिर्वा भजनात् पुरुषः यद्वा-षण दाने । बहुदानात् पुरुषः । एतद्गुणोपेतो भगवान् वासुदेवः ; नान्य इत्यर्थः । पद्मे पुराणे - भगवानिति शब्दोऽयं तथा पुरुष इत्यादि । - ।