पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

38 २०५ ईदृक्षं त्वां महान्तं दिवि पुरुष ! तमःपारदेशे विभान्तं सूर्याभं नामरूपे विदधतमवयन् श्रीश ! यजैर्विशुद्धैः । इष्टवा सर्वान्तरं त्वाममृत इह भवद्वेदनादेव देशं नित्यैर्जुष्ट तमेति त्वदनुभवरतब्रह्मशक्रादितुल्यः ।।

२०४ यज्ञं विष्णुं भवन्तं कृतयुगकलिता ये त्वदेकार्थयज्ञाः तत्तच्छब्दोदितं तैरयजत परमैकान्तिधर्मैः सुरौघः । शीर्षाद्यानन्त्यशाली श्रितरम ! भुवनात्मा चतुष्पात् विराडा- द्याधाता धातुरर्थै कृतजगत् अनघज्योतिरत्नासि वेद्यः ॥

कालेऽर्चिर्वस्रशुक्लोत्तरगमनसमावायुसूर्याब्जविद्यु- त्पाथोनाथेन्द्रवेधोगमितम् अनुगते वैद्युतामानवेन । अव्यक्ते त्यक्तसूक्ष्मं व्यतिगतविरजं ब्रह्मदेहं विभूप्य श्रीमन् ! आनाय्य भक्तं श्रितपदमथ संभाष्य सायुज्यदोऽसि ॥ २०६

छान्दोग्येशाख्य शुभ्राश्चतरवरशिखामुण्डकपश्नमुख्ये प्रायः पुंसूक्तवत् त्वं पुरुष इति समस्तेऽथ विष्णुः कठादौ । सौबाले तैत्तिरीयादिषु च महति च श्रीश ! नारायणाख्यः ख्यातोऽसि ब्रह्मबिन्दौ वृषशिखरिपते ! वासुदेवः सुदेवः ॥ २०७

द्वात्रिंशत् सन्ति विद्यास्तव पदभजनेऽत्रेति भूयान् प्रवादः वेदेऽनन्ते तदर्थे त्वयि बहुजननेऽनन्तकल्याणपूर्णे । संख्याने कः समर्थः स्वयमिह नतरामद्य निष्कर्षशक्तिः ___ भीष्मान्तो भक्तियोगो भुवि बत यदि वा श्रीश ! नाथान्त एषः ॥ २०८

एकैवाऽऽद्यन्तमेकं प्रकरणमिति या नाचिकेताख्यविद्या तन्मध्ये केचिदत्तृप्रमितमुखवचस्स्वाहुरन्यान्यविद्याम् । यां विद्यां चीर्णशीर्षव्रतनियमविधिर्नैव मिन्तेऽक्षराख्यां ताश्चान्या केऽपि मर्यशामसित इति श्रीश ! किं. ! ॥ २०९