पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् w . -- स भूमिं विश्वतो वृत्त्वा अत्यतिष्ठद् दशाङ्गुलम् ॥१॥ अर्वाचीनाः कवयोऽपि - संहृत्य लोकान् पुरुषोऽधिशेते श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।' तमसः परमं तमव्ययं पुरुषं योगसमाधिना रघुः ।। हरिर्यथैक: पुरुषोत्तमस्ततः ? ' इति । इत्यादिभिर्वचनैः पुरुषो वासुदेव इति सिद्धम् । स भूमिं विश्वतो वृत्त्वा एवम्भूतः सः भूमिं भूम्यादिलोकजातं विश्वतः सर्वतो वृत्त्वा व्याप्य, यद्वा भूमिं जगत्कारणं प्रकृतिं विश्वतः कार्यवर्गैः सह वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् । यथाऽऽह, 'अणोरणीयान् महतो महीयानिति 'अणुत्वेन महत्त्वेन द्विधा तिष्ठति केशवः । तत्र पौरुषसूक्तेन महत्त्वमुपवर्णितम् ।। इति । तस्मात् स भूतानि व्याप्य ततोधिको भवतीत्यर्थः । एतदुक्तं भवति - योऽयं सहस्रशीर्षा पुरुषः, स पुरुषो भूम्यादिलोकजातं व्याप्य तस्माल्लोकजातात् दशाङ्गुलमत्यतिष्ठत् । अथ दशाङ्गुलशब्दस्यार्थ उच्यते । अत्र दशाङ्गुलशब्देन न दशाङ्गुलवचनम् ; अपरिच्छिन्नस्य पुरुषस्य परिच्छेदप्रसङ्गात् । तर्हि कोऽर्थः ? उच्यते । दशदशानत्यन्तयोरित्येतस्मिन्नच् प्रत्ययः (१) अतिकोटियोजनयोरिति । एतस्मिन्नौणादिक उलच्प्रत्ययः । तस्मादनन्तयोजनमिदमतीत्यातिष्ठदित्युक्तं भवति । पाद्मपुराणे भुवनकोशाध्याये, भूमेश्च ब्रह्मकोशस्याप्यन्तराळं कियद्वद । योजनानामनन्तत्वादशाङ्गुळमिदं विदुः ।' इति । सात्त्वतसंहितायां पुरुषसूक्तार्थे- सहस्रशब्दोऽनन्तवचनः । पुरुषशब्दो वासुदेवपरः। भूमिशब्देन भूम्यादयो लोका उच्यन्ते । दशा ळशब्दोऽनन्तयोजनमाहेति ।