पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४११

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० श्रोरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तदिति । यद्वा अङ्गुळशब्दो गुणपरः । दशगुणवस्त्वन्तरभूतानि अतीत्यातिष्ठत् । किं दशोत्तरो वह्निः, व्हेर्दशोत्तरो बायुः, वायोर्दशोत्तरं व्योम, व्योम्नो दशोत्तरोऽहकारः, अहङ्काराद् दशोत्तरो महान् , महतो दशोत्तरमव्यक्तम् । समस्तमिह वस्त्वतीत्यातिष्ठदित्यर्थः । केचिदेवं व्याचक्षते - दशाङ्गुळशब्दो हृदयाकाशवाचकः । भूम्यादिलोकान् व्याप्य हृदयाकाशमत्यतिष्ठत् । दशाङ्गुळपरिमाणहृदयाकाशं अणोरणीय आकारेणान्तरात्मतया अत्यतिष्ठत् । धकारस्य स्थाने तकारश्छान्दस इति अध्यर्थोऽयमतिशब्द इति तन्न युक्तम् । श्रूयमाणस्यातिशब्दस्य मुख्यार्थसंभवे सति अध्यर्थवचनस्यायुक्तत्वात् । विश्वत इति हृदयस्यापि कबलीकृतत्वाच्च । 'अणुत्वेन महत्त्वेन' इत्यादिना, 'दहरादिमवाक्येन तस्याणुत्वं प्रदर्शितम् ' इति योगवासिष्ठे स्पष्टवचनाच्च । दहरशब्दः सूक्ष्मपर्यायः । नन्वेवं हि पूर्वमुक्तम् , अयं पुरुष इति । सर्वदेशसर्वकालापरिच्छिन्नविधं वेषं विहाय सर्वेषां दर्शनस्तुतिसमाराधनाद्यर्हं परिच्छिन्नं कश्चन वेषमादत्त इति प्रत्युतान्यथा वदति ; अस्य परिच्छिन्नोऽप्ययं वेषः प्राप्तः पूर्ववदपरिच्छिन्न इति, कथं परिच्छिन्नत्वेन स्तूयत इति । अस्य चोद्यस्य परिहारः पाद्मेऽभिहितः । स उच्यते 'आदत्ते यादृशं रूपं जगत् त्रातुं परः पुमान् । स तादृशेन रूपेण दुर्ज्ञानो जायते हरिः । तथाप्य- मूर्तः पुरुषः स्तोत्रयोम्यो न जायते । त .... नारायणान्निर्वाणाय च कल्पते।।

श्रीमास्ये अगस्त्यवचनम् तस्यावनिगतस्येह प्रत्यक्षस्यापि ते वः । न ज्ञायते च तत्त्वेन परं रूपं कुतस्तव । मीनात्मा यादृशोऽसि त्वं तादृशस्त्वमसि प्रभो। क्यं त्वामीश इति वेदितुं नोत्सहामहे ।।