पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् पुरुष एवेदं सर्व यद् भृतं यच्च भव्यम् । श्रीमदुत्तररामायणे अगस्त्यवचनम् , शरीरे तव पश्यामि जगत् सर्व रघूद्रह । तेजसा च सुदुर्दर्शो मध्याह्न इव भास्करः' इति । 'अस्यं परिग्रहो न कार्यं इत्यर्थः । अशरीरोऽपि सन् सर्वं करोत्येव । इन्द्रियपरिग्रहो न कार्य इत्यर्थः । अनिन्द्रियोऽपि सन् तत्तदिन्द्रियकार्य करोत्येव । 'अपाणिपादो जवनो गृहीता, 'अन्धो मणिमविन्दत्, तमनङ्गुलिराहयत् । अग्रीवः प्रत्यमुञ्चत् । इत्यादि। एवं देशतो व्याप्तिमुक्त्वा कालंतो व्याप्तिमैश्वर्यं चैवमाह पुरुष एवेदं सर्वमिति । यदिदं वर्तमानं कार्यजातम् , तत् सर्वं पुरुष एव । तदुपादानत्वात् सर्वस्य । न हि कार्यमुपादानेन विनाऽस्ति । यद्भुत अतीतं वस्तु, तदपि पुरुष एव । यच्च भव्यम् भविष्यच्च पुरुष एव । प्रपञ्चपुरुष्योरीश्वरेशितव्यभावात् समानाधिकरणव्यपदेशः, 'ग्रामोऽयं देवदत्तः' इतिवत् । कार्यकारणभावाद्वा, ‘पानीयं प्राणिनां प्राणाः ' इतिवत् । एवमेव श्रुतिस्मृतीतिहासपुराणेषु सामानाधिकरण्यवादाः द्रष्टव्याः । 'वासुदेवः सर्व' मिति, 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उप सीन ।', 'ज्योतींषि शुक्राणि च यानि लोके. त्रयो लोका लोकपालास्त्रयी च । त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव ॥ सर्वे देवाः सर्ववेदाः स शास्त्राः सर्वे. यज्ञाश्च कृष्णः । ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य' इति । 1. अत्यतिपदिस्यस आशयान्तरवर्णनम् अस्ये त्वादिना । न कार्यः नावश्यं कर्तव्यः । ... .