पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ श्रीरारामानुजमुनिविरचितभाष्ययुक्तम् उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥ एतावानस्य महिमा अतो ज्यायाँश्च पूरुषः । महाभारते य एष देवकीपुत्रः पुरस्तादवतिष्ठते । स एव पुरुषो भूतं भव्यं चापि तथा भवत् ॥' एवमस्य कालतो व्याप्तिमुक्त्वा अयमेव सृष्टिकार्यजातचेतनवर्गस्य (1) सर्वदेश- कालमोक्षपद इत्याह ---- उतामृतत्वस्येशान इति । उत किञ्च अयमेव पुरुषः अमृतत्वस्य मोक्षस्य ईशानः । सायुज्यादिचतुर्विधमोक्षपदो भवति । मोक्षे नित्येऽमृते देवे कीर्तित त्वमृतं बुधैः' इति नैखण्डकोक्तत्वादमृतशब्दो मोक्षपर्यायः । मोक्षस्येशानो भवति । अन्नेन यदतिरोहति, तस्य शरीरवर्तिनो जीवजातस्य मोक्षं प्रति भगवानेवेष्टे । यत् कार्यजातमन्नेन अदनीयेन भोग्यद्रव्येण स्वकारणमतीत्य रोहति --- ' अन्नाद्भूतानि जायन्ते । इति श्रुतिः --- अहरहरशितेनान्नेन पूर्वपूर्व- बाल्यकौमाराद्यवस्था अतीत्य यत् जीवजातं रोहति वर्धते, तस्य मोक्षप्रदाने विष्णुरीशानो भवतीत्यर्थः । मोक्षधर्मे, अन्नाज्जातस्य सर्वस्य मनुष्यादेरकारणात् । निर्वाणदायी भवति कृपया पुरुषोत्तमः ।' इति । (२) उक्तं सर्वेश्वर [महिमान] मुपसंहरते एतावानस्य महिमा। एतत्परिमाणम... णोस्य महिमा विभूतिमात्रम् । अतो ज्यायांश्च पूरुषः । अतः ईदृशात् महिम्नः ज्यायान् प्रशस्यः श्रेष्ठः । यत एव पुरुषः सकलानपि लोकान् व्याप्य तिष्ठति, यतश्च समस्तवातुजातमसौ सृजति, यतश्च संसारिणो मोक्षम्यायमीष्टे, अत एतावानस्य महिमा । शतपथब्राह्मणे अध्यात्मखण्डे प्रतिपादितम् " यदाऽयं नारायणाख्यः पुरुषो महान् भवति, तदानीमेवाणुर्भवति । यदाऽयं व्याप्तो भवति, तदैव प्रादेशिको भवति । यदैव भूमौ भवति, तदैव परमव्योम्नि भवति । यदा एक एव भवति, तदा अनेकः । यदाऽयं प्राकृतो भवति, तदैवापाकृतो भवति । यदा विषयवशो 1 " 1 - }