पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् ३२३ . , भवति, तदैवोपरतो भवति । यदा नरको भवति, तदानीमेव स्वर्गों भवति । यदा स्त्री भवति, तदैव पुरुषो भवति । यदा मनुष्यो भवति, तदा देवो भवति । यदा सर्वं भवति, तदा शून्यो भवति । यदा प्रपञ्चो भवति, तदा प्रपञ्चाद्भिन्नो भवति । यदा बद्धो भवति, तदैव मुक्तो भवति । यदा शुक्लो भवति, तदा कृष्णो भवति । यद। शरीरी भवति, तदा अशरीरी भवति । यस्मात् यानि यानि विरुद्धस्वभावानि, तानि सर्वाणि तदानीमेवास्मिन् लीनानि भवन्ति, तस्मादयमीशः इति दुर्ज्ञानः, दुर्वचः, दुर्ध्यानः । तस्मात् ज्येष्ठः । वाङ्मनसोरगोचरः" इति । हरिवंशे पुरुषसूक्तप्रकरणे नारदस्तुतौ, 'देशतः कालतो वाऽपि मोक्षदत्वाच वेधसः । हरेर्विभूतिमात्रं तु केवलं प्रतिभाषितम् । अतो महिम्नः स्वल्पांशात् ज्याद्यानेव परः पुमान् । ज्यायस्त्वं तस्य तत् सर्वैः सुदुर्ज्ञानतरं भवेदिति । 'ब्राह्मणेभ्योऽखिलेभ्यश्च भूतजातेभ्य एव च । ब्रह्मादिभूतसंघेभ्यो ज्यायानेव परः पुमान् । ओजसो रूपतो वापि यशसो वीर्यतोऽपि च । विभुत्वातिशयाद्वापि ज्यायानेव जनार्दनः । महाभारते एकतो वा जगत् कृत्स्नमेकतो वा जनार्दनः । सरितो जगतः कृस्नादतादतिरिक्तो जनार्दनः । 11 श्रीभगवदगीतायाम् - द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः " इति ।