पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

, - ३२४ श्रीरङ्गरामानुजमुनिविरचितभाप्ययुक्तम् पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।३।। श्रीनारसिंहे- ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । सर्वमेवास्य महिमा स च ज्यायानतो हरिः ।" अथवा -- अस्य परिदृश्यमानस्य चराचरात्मकस्य प्रपञ्चस्य महिम्ना एतावान् परिच्छिन्नः । अतः अस्मात् प्रपञ्चात् पुरुषो ज्यायान् अपरिच्छिन्नप्रभावः । अस्य ज्यायस्त्वमेव प्रपञ्चयति पादोऽस्य विश्वा भूतानि । अस्य दुर्ज्ञानस्य पुरुषस्य विश्वा भृतानि चराचरामकानि पादः अंशः कलामात्रमित्यर्थः । सृष्टयादिशक्तरेकदेशः । तदीयशक्तिलेशविजृम्भितमिदं जगद् गीयते, 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' इति । श्रीविष्णुपुराणे- 'यस्यायुतायुतांशे विश्वशक्तिरिय स्थिता' इति । अत्रैव गोपीनां वचने यस्याखिलं महीव्योमजलाग्निपवनात्मकम् । ब्रह्माण्डमल्पकांशांशे तोष्यामस्त्वां कथं वयम् ॥" श्रीनारसिंहे- 'यदशांशतदंशांशतल्लेशलवलेशतः । उत्पन्नश्च प्रलीनञ्च जगत् सर्वं चराचरम् । इति । त्रिपादस्यामृतं दिवि । त्रयः पादा यस्य, तत् त्रिपादुक्तम् । त्रिशब्दो बहुर्थपरः । अस्य निरतिशयज्ञानानन्दवैराग्यैश्वर्यादिभिरनेकैः सुगुणैरुपेतस्य रूपममृतं दिवि । अमृतम् अमरणधर्मकमित्यर्थः । दिवि परमे स्थाने । यत् परमपदवाच्यं सूरयः सदा पश्यन्ति । 'द्युशब्दः परमे व्योनि स्वर्ग वियति कथ्यते ।' वैकुण्ठसहितायाम - अनन्तायामविस्तारो वैकुण्ठः संप्रकीर्तितः । तस्मादस्य त्रिपादांशो बैकुण्ठो भासतेतरामिति ।"