पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् ३२५ " त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहाभवात् पुनः । एवं सात्त्वतसंहितायां वासुदेवस्य चतुर्व्यूहाध्याये, 'अत्र पादशब्दः चतुर्थांशः । त्रिपाच्छन्दः त्रिपादवचनः । पुरुषसंहितायां वैकुण्ठसंहितायाञ्च,- सदादिपुरुषो विष्णुः सर्वव्यापी सनातनः । शरीरात् स्वाज्जगत् त्रातुं सकर्षणमभावयत् । स च प्रद्युम्नसंज्ञस्सन्ननिरुद्धमभावयत् । तस्मात् ब्रह्मा समुत्पन्नो जगत सृष्टुं चराचरम् । एवं चतुर्धा संव्यूह्य स्वात्मानं पुरुषोत्तमः । अण्डे ह्यप्राकृते नित्यं त्रिपादेन विराजते । इतरेण च पादेन प्राकृतेऽण्डे विराजते । जगत्सृष्टयादिकार्याणि कर्तुकामः स्वलीलया। (३) उक्तमेवार्थान्तरविवक्षयाऽनुवदति ---- त्रिपादूर्ध्व उदैत् । उद्गतवान् । यद्वा स एष त्रिपादिति त्रिपादः पुरुष उर्ध्वं प्रकृतिमण्डलादूर्ध्वम् उदैत् उदगच्छत् । तं दुर्ज्ञानं पुरुषं विहाय तस्य चतुर्थांशमनिरुद्धाख्यं नारायणमदूरविप्रप्रषेण स्तोतुमारभन्ते । पादोऽस्यहाभवात् पुनः । अस्य पादः एकदेशः इह अभवत् पुनः संसारचक्रे भोग्यभोगायतनादिरूपेण पुनरभवत् पुनः पुनः प्रवर्तते । अभवादित्यार्ध्वयवपाठे दीर्घः छान्दसः । यद्वा भगाद्यूहाभिप्रायं पादोस्य विश्वा भृतानीत्यादि । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाकारो भगवांश्चतुर्व्यूहो भवति । अत्र भगवतस्तुरीयो भागः अनिरुद्धाभिधानः विश्वानि भूनान्यधिष्ठाय सृष्टयादीनि करोति । पूर्ववत् कार्यकारण- योरभेदवादः । इतरैस्त्रिभिर्भागैर्वासुदेवसङ्कर्षणप्रद्युम्नाख्यैरुपेनममृतमविनाशि -परमसुखस्वरूपं दिवि नाकपृष्ठे वसति । उक्तमेव व्यनक्ति त्रिपादिति । वासुदेवादिरूपैस्त्रिपात पुरुष ऊर्ध्वं वाङ्मनसयोरगोचरस्सन् उदैत् प्रकृतिप्राकृतमया् सुदूर-