पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२६ श्रीरारामानुजमुनिविरचितभाष्ययुक्तम ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥ मुत्क्रान्तवान् । इह संसारमण्डले अस्य पादः अनिरुद्धाभिधानः भगवानभवत् । पुनः पुनः सृष्टयादौ प्रवर्तत इति । तथाच पुराणे तत्त्वाध्याये, " सर्वस्याथ जगन्नाथः सर्वात्मा भूतभावनः । महतः प्रळयस्यान्ते जगत् स्रष्टुं समुद्यतः । परमव्योमनिलयो वासुदेवः सनातनः । शरीरात् स्वाज्जगत् त्रातुं संकर्षणमभावयत् । स चाण्डजातमसृजत् महाभूतानि पञ्च च । दशोतराणि सर्वाणि परस्तात् प्रकृतेर्व्यधात् । तत्रत्यानाञ्च भूतानामन्योन्यानुभवाय च । प्रद्युम्नं भावयामास सदा कामरसप्रदम् । एवमप्राकृतान्येष बाह्यान्यण्डानि केशवः । सृष्टा च प्राकृतं चाण्डं स्रष्टुं दधे स्वमानसम् । ततः स वासुदेवोऽयं प्रद्युम्नादुदपादयत् । सर्वस्य जगतः कोशमनिरुद्धाह्वयं हरिम् । स चानिरुद्धो भगवानादौ जलमभावयत् । जले तस्मिन् प्रचिक्षेप निजवीर्यं जगन्मयम् । तद् द्वितीयाण्डमभवदण्डात् ब्रह्मा व्यजायत । स भूतानां च सर्वेषामग्रे जातः पितामहः । जगन्निर्मातुमुध्युक्तः समन्ताद्विक्रमे ततः संबद्ध्यमानोऽयं सृष्टियज्ञात्मना व्यधात् ।" इत्यादि । संप्रति विवक्षितां प्रपञ्चसृष्टिं वक्तुमपक्रमते ततो विष्वङ् व्यक्रामदिति । समन्तादर्थे विष्वङ् निपातितः । ततः पश्चात् पुरुषः ततः महाप्रळयात् पश्चात् तेन पादनारायणेन व्यक्रामत् उद्यममकरोत् । किमुद्दिश्य । साशनानशने अभि । अशनेन सह वर्तत इति साशनं जङ्गमवस्तु । अशनमस्य नास्तीत्यनशनं 4.