पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् (४) तस्माद् विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥ ५॥ स्थावरं वस्तु । ते उभे प्रति, विष्वक् सर्वतः चराचरात्मकं समस्तं जगत् प्रति मानपसंकल्परूपं सृष्टिव्यापारमकरोदित्यर्थः । तस्माद्विराडजायत । तस्मादेवं व्यापारवतः पुरुषात् विराडजायत । विराट्च्छब्देन महदादिरूपेण विविधं राजतीति हिरण्मयमण्डमुच्यते । विराजो अधि पूरुषः । विराजोऽनन्तरं पुरुषश्चतुर्मुखाख्योऽध्यजायत । तथाऽऽह मनुः । ततः स्वयंभूभगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः । सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः' इति । स जातो अत्यरिच्यत । तस्मात् ब्रह्मा अतिरिक्तोऽभवत् । पश्चाद्भूमिमथो पुरः । अथो शब्द र्थः । विभक्तिव्यत्ययेन भूमेः पश्चात् पुरस्ताच्चोर्ध्वं चात्यन्तं प्रवृद्धो व्याप्तो बभूवेत्यर्थः । सर्वत्रातिवृद्धकायोऽभवत् । शाम्बव्यपुराणे --- पुरुषसूक्तसंहितायां आदिश्चतसृणा दित्यादि । स तस्मात् व्यापारानन्तरम् । अथ पादनारायणात् मूलं प्रकृतिरजायत । सा प्रकृतिः पादनारायणशासनात् महदहङ्कारादीन् पदार्थानजनयत् । एवं सूक्ष्मायां सृष्टौ, कृपया स पादनारायणः स्थूलसृष्ट्यर्थं चतुर्मुखमभिदध्यौ । तद्धयानात् .... दनन्तरमथ विराजः पश्चात् पुरुषश्चतुर्मुखाख्यः अजायत । पश्चात् पुरतश्चातिरिच्यते । अतिरेको वृद्धिः । सर्वकार्यक्षमोऽतिवृद्धकायोऽभवत् । वृद्धकायस्सन् तूष्णीमस्ति .... अनिरुद्रनारायणोऽपाक्षीत् । ब्रह्मन् ! किं तृष्णीं भवसीति । अज्ञानादिति होवाच । ब्रह्मन् ! तवेन्द्रियाणि देवान् ऋत्विजः कृत्वा त्वदीयं च कळेचरं हविः कृत्वा मां हविर्भुजं ध्यात्वा मय्यग्नौ निवेदय । मदङ्गस्पर्शमात्रेण .... .... .. 19 -