पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् यत् पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविः ॥ ६॥ जगत्कोशभूतः त्वत्कायो बृहिण्यते । तस्मादुद्भूतानि प्राणिजातानि यथापूर्वं निर्मान् त्वष्टा भवप्यसि । य एव सृष्टियज्ञ जानाति; स जन्मनीह मुक्तों भवतीति । ईशस्य ब्राह्मणस्योपरि वतरंति । श्रीवराहपुराणे - " सिसृक्षोरनिरुद्धाख्यादण्डं प्रथममुद्बभौ । अण्डाद्ब्रह्माऽध्यजायत निर्मातुं सकल जगत् । स जातमात्रो भगवानवर्धत समन्ततः । तं प्रवृद्धमहाकायं ब्रह्माणं रचिताञ्जलिम् । जगत्सृष्टिमानन्तमनिरुद्धो हरिर्जगौ । त्वमिन्द्रियैर्देवसंज्ञैः कुरु यज्ञं समाहितः । त्वच्छरीरं हविर्ध्यात्वा मां ध्यात्वा च हविर्भुजम् । प्रणवोच्चारणेनैव मय्यग्नौ त्वां निवेदय । मदनस्पर्शमात्रेण स्रष्टुं योग्यो भविष्यसि ।" संप्रति प्रपञ्चसृष्टिं यज्ञरूपेण कथयति । यत् पुरुषेण हविषा यदा पुरुषेण चतुर्मुखाख्येन पशुहविषा देवाः साध्याख्याः, तदिन्द्रियाणि वा यज्ञं सृष्टवाख्यं सृष्टया (ध्या) त्मक ध्या (ज्ञ) नमय (सृष्ट्यर्थमध्यात्मज्ञानमय ?) मतन्वत अकुर्वत । ' इन्द्रियमाणसाध्येषु देवशब्दः समीरितः । इति योगवासिष्ठवचनात् देवशब्द इन्द्रियवाची । तदा वसन्तो अस्यासीदाज्यम् । अस्य अध्यात्मज्ञान यज्ञस्य वसन्तः कालः आज्यमासीत् । पाद्मे पुराणे वसन्तवर्णने, 'हिमदग्धतृणा भूमिर्वसन्ते शोभते तृणैः । गावश्च तृणभक्षेण दुहते सुतरां पयः' इति वचनात् । शिशिरापगमे गवां कार्यापगमात् बह्राज्यहेतुत्वमुक्तं भवतीति वसन्तस्यान्यस्वत्वमुक्तम् । एतेन वसन्तकालसृष्टिरुक्ता । ग्रीष्म इध्मः । ग्रीष्मर्तुः इध्मत्वेन ध्यात आसीत । तापतिशयहेतुत्वाद्ग्रीष्मस्येध्मं भवतीति ।