पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

39 ज्योतिज्योतिर्ष्टमन्त्रं महितरमः ! ततः पाञ्चजन्याश्रयोक्तिं प्राणादिप्राणतादेर्वचनमपि विभिन्नार्थताभ्रान्तियोग्यम् । मत्वा व्यासोऽसुसूत्रद् विनिगमकमुशन् एकवाक्यत्वरूपं यं ह्यर्थम् , तं तदन्यं त्वपि वदति तव ज्योतिषांज्योतिरुक्तिः ॥ २१०

विद्या देवादिजुष्टा प्रकृतविसदृशी ज्योतिषां ज्योतिराख्या __ ब्रह्मप्रावण्यसिद्धयै श्रितरम ! कथिता मध्य इत्याशयीरन् । पुंविद्या तैत्तिरीये कथमपि न पृथग्भावमाप्नोति काम्या- स्त्वादित्याकाशमुख्यास्तदिह न गणनं तत्तत् अत्यन्तह्रद्यम् ।। २११

काम्याऽकाम्यात्मिका वा त्वयि भवतु मतिर्दृष्टयदृष्टयात्मिका वा या इष्टाः ब्रह्मसूत्रेष्विह तत इतराश्चापि विद्यास्त्रयीष्टाः । शङ्के शारीरकोदाहृतविषयवचोमात्रमाद्यन्तमालो- व्यैता द्वात्रिंशदुक्ताः कथमपि बृहदारण्यकान्तश्रुतीर्वा ॥ २१२

इत्थं पुंसूक्तविद्याद्यनवधिनिगमोपज्ञविद्यैकलभ्यं विख्याते ताण्डिकौषीतकितलवकराद्युक्तनानाविशेषैः । दिव्ये धामन्यनन्ते सह सरसिजया भ्राजमानं भवन्तं सन्तोऽद्य श्रीश ! गन्तुं द्वयकरणभरन्यासविद्यां गृणन्ति ॥ २१५

पूर्णस्त्वं नित्यवन्द्यः पर इह निखिलानुग्रहेदम्परस्सन् व्यूहं यातोऽवतारं विभवमपि हृदन्तःस्थमर्चामयञ्च । कारुण्यैकान्तधामन् ! कलिकलुषहृदो वेङ्कटाद्रौ स्थितोऽस्मिन् पासि प्रख्यापितात्मा शरणमुपयतः श्रीश ! विश्राणितेष्टः ।। २१४

प्रज्ञा चर्या विरक्तिः परमतनिकृतिः स्वात्मसिद्धान्तरक्षा निर्दुष्टस्पष्टहृद्यव्यवह्रतिरपि यं ह्यञ्जसोपघ्नयन्ति । सोऽयं श्रीरङ्गरामानुजमुनिरनघस्तद्गुरुस्तद्गुरूद्धाः सन्तोऽन्ये च त्वदङ्घ्रिप्रवणधियि मयि श्रीश ! सन्तु प्रसन्नाः ।। २१५