पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् ३२९ Dany - सप्तास्यासन् परिचयः त्रिः सप्त समिधः कृताः। देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ ७ ॥ 'ग्रीष्मकाले पलाशेध्मानाहरन्ति महर्षयः । ये च सांवत्सरं सत्रमासते गव (१) शान्तये । इति । अनेन ग्रीष्मकालसृष्टिरुक्ता । शरद्हविः । शरदृतुः पुरोडाशाख्यं हविरासीत् । श्रीरामायणे शरद्वर्णने खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किञ्चिदालम्बाः शालयः कनकप्रभाः ।' इति । अनेन शरत्कालसृष्टिरक्ता। व्रीहिपाकहेतुत्वात् शरदो हविष्ट्ववादः । (६) बृह्णृचपाठे उपरिष्टात् पठिताऽपि याजुषं पाठमाश्रित्य औचित्यात् सप्तास्यासन् परिधय इत्येषा व्याख्यायते । तस्य सृष्टियज्ञस्य सप्त परिधय आसन् । परितो निधीयत इति परिधिः। परिधीनां सप्तत्वमाह, 'उत्तरवेदिपरिधयस्त्रयः । आहवनीयस्य परिधयस्त्रयः । आदित्यः सप्तमः' इति शतपथब्राह्मणे । अत्र के परिधित्वेन ध्याता आसन् ? उच्यते । पृथिव्यप्तेजोवाय्वाकाशाहङ्कारबुद्धयः सप्तेति मैत्रावरुण्युपनिषदस्ति । त्रिस्सप्त समिधः कृताः। तथाच श्रुतिः 'एकविंशतिमिध्य .... दारूणि भवन्ती' ति। अत्र के समित्त्वेन कृताः । वैगायनिब्राह्मणे समिध उक्ताः । 'पृथिव्यादीनि भूतानि तन्मात्राश्चैव पञ्च च । कर्मेन्द्रियाणि पञ्चाथ पञ्च ज्ञानेन्द्रियाणि च । अन्तःकरणमित्येकविंशच्च(ति::) समिधः कृताः । ' इति । कदा परिध्यादयः कृताः ? देवा यद्यज्ञं तन्वानाः | यत् यदा साध्याख्या देवाः, -वैकुण्ठसंहितायाम् , 'ते देवा इति कीर्त्यन्ते ये सुरालयवासिनः । वैकुण्ठवासिनः सर्वे साध्या देवा इतीरिताः । इति । 42