पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

। 1 पुरुषसूक्तम् ३३१ तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशुँस्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥९॥ प्रसङ्गात् वसुरण्य इति मन्त्रार्थ उच्यते । हे प्रत्यगात्मन् ! वसु सर्वेषां वासयिताऽसि । सर्वेषां धनमिवासीति । रण्यः । रण भाषणे च शब्दे च । सर्वैः कीर्तनीयश्वासि । विभुरसि सङ्कल्पमात्रेण विविधं भावयिताऽसि । प्राणे त्वमसि संधाता । प्राणे वसन् सर्वस्य अनुसंधाताऽसि । ब्रह्मन् त्वमसि विश्वसृक् त्वमेवं विश्वस्रष्टा चासि । तेजोदास्त्वमस्यग्ने । त्वमेवाग्नौ तेजोदाश्चासि । "वर्चोदास्त्वमसि सूर्यस्य । त्वमेव वर्चोदा असि । वर्चों दीप्तिः । द्युम्नोदास्त्वमसि चन्द्रमसः । त्वमेव द्युम्नोदा असि । घुम्नशब्दो दीप्तिपरः । गीयते हि- यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम् ।' उफ्यामगृहीतोऽसि । उपयच्छतीत्युपयामः तेन गृहीतः । हविषः अस्कन्नताहेतुभूतं मृदादिल्पयामः । तेन गृहीतोऽसि । ब्रह्मणे त्वा महसे । महते ब्रह्मणे त्वाम् [ समर्पयामि ? ] । ओमित्यात्मानमुपहारं आत्माग्नौ युञ्जीत । स एव जीवात्मपरमात्मयोग इति । प्रकृतमनुसरामः । तस्माद्यज्ञात् सर्वहुत इति । सर्वं जुहोति त्यजतीति- अङ्गयागो न भवतीति गार्ग्यायणाः सर्वहुत् पशुः । सर्वहुतो यज्ञाख्यात् ब्रह्मणः पृष्टदाज्यं संभृतमभूत् । पृष्टदाज्यं याज्ञिका दधिमिश्राज्यं प्रचक्षते । अत्र तु सृज्यप्राणिजननहेतुभूतं वीर्यं पृषदाज्यं भवतीति प्रोच्यते । तद्यथा चित्ररूपं भवति, एवमेव पशुनी (पशोर्नी ) लादि विचित्रभूतं वस्तु जातं भूतमित्यर्थः । पशूँस्ताँश्चक्रे वायव्यान् । वायुशब्देन वायुमताऽन्तरिक्षेण गतिर्लक्ष्यते । वायव्यान् पशून् पुरुषश्चके ससर्ज । आरण्यान् व्याघ्रादीन् । आरण्यशब्दः पशुविशेषणम् । ग्राम्यशब्दश्च । ग्राम्याश्च ये पशवः मार्जारादयः, वराहादयो वा, तान् चक्रे, वायन्या ये आरण्याः, तानपि चक्रे । "