पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३३० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तं तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥८॥ -- इन्द्रियाणि वा देवाः सृष्टिरूपं यज्ञं कुर्वाणाः पुरुषं चतुर्मुखाख्यमबध्नन् पशुत्वेनामन्वत, -तदेत्यर्थः । अबघ्नन् पुरुषं पशुम् । विष्णोराज्ञया रशनास्थानीयया ब्रह्माख्यं पशु देवाः तत्परवशानीन्द्रियाणि मूलपकृतौ यूपस्थानीयायां सकललोकसृष्टियज्ञनिष्पत्तये न्ययुञ्जन् । तं यज्ञ देवाः कुर्वन्तीत्याह तं यज्ञमिति । तं यज्ञं बर्हिषि प्रौक्षन् । अयं यज्ञशब्दो यज्ञसाधकवचनः यजनीयहविःपरः । बर्हिश्शब्दो बृंहणयोगिनि वर्तमानः । योगरत्ने, 'विराट प्रकृतिः बहिर्रिति समाननामानि ' इति ।' तमग्रतो जातं यष्टव्यं बर्हिषि प्रकृतौ निधाय साध्या देवाः प्रौक्षन् । प्रोक्षणादिसंस्कारं कृत्वा ब्रह्माख्यं तत्पशुं बृहणयोगिन्यां मूलपकृतौ देवाः प्रक्षिप्तवन्तः । जगदुपादानभूतया प्रकृत्या जगत्कर्तारं ब्रह्माणं तदिन्द्रियाणि समयोजयन्नित्यर्थः । तेन देवा अयजन्त साध्याः । तेन प्रकृतियुक्तेन ब्रह्माख्येन संस्कृतेन पशुहविषा साध्या देवा: कर्मसाधकानि वागिन्द्रियाणि सृष्टियज्ञमकुर्वत = अनिरुद्धाग्नौ प्रक्षिप्तवन्तः । ऋषयश्च ये-ज्ञानसाधनानि चक्षुरादीन्द्रियाणि । तानि च सृष्टियज्ञमकुर्वत । (१) तदुद्भावो वक्ष्यते । अथवा अस्य पुरुषमेधाख्यस्य मोक्षहेतुत्वात् मुमुक्षवो ये ऋषयः, तेऽप्येवमेवायजन्तेति । आह च रत्नग्रन्थे ये मुमुक्षवः अव्भक्षा वायुभक्षा जीर्णपर्णाशना वाग्यताः प्रणवाभ्यासनिरताः सर्वभूतहिते रताः बहिष्कृतसर्वकामाः परमशान्ता जितेन्द्रियाः विरक्ताः परमात्मनि गोविन्दे सदा सनिहितमानसा वसुरण्यमन्त्रमुच्चारयन्त आत्मानं तेजोमयमग्नौ परमात्मनि जुह्वति, तेऽपि विमुक्ता भवन्ति । एवं जीवात्मपरमात्मनो- र्योगाख्यो मोक्ष इत्युक्त इति विजानीयात् । एतज्ज्ञानमात्रादेवाचिरान्मोक्षः सिद्ध इति विजानीयात् " इति ।