पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दाँसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥१०॥ तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ ११ ॥ यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य को बाहू कावूरू पादावुच्येते ।। १२ ।। ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । ऋग्वेदः सामवेदश्च प्रादुरभूताम् । छन्दांसि जज्ञिरे तस्मात् । गायत्र्यादीनि अजायन्त । यजुस्तस्मादजायत । यजुः यजुर्वेदश्च । तस्मादश्वा अजायन्त । यज्ञसंबन्धिनः अश्वाः । ये के चोभयादतः गावो ह जज्ञिरे तस्मात् । अधरोत्तरभागयोरुभयोर्दन्ताः येषाम् , ते रासभादयः । ते च गावश्च जज्ञिरे । तस्मात् जाता अजावयः । अजाश्चावयश्च जज्ञिरे । केचित्तु विशब्दो बहुवचनान्त इति कृत्वा.... मृगाः पक्षिणश्च जाता इति व्याकुर्वते ?] (११) पुरुषस्य मुखाद्यवयवप्रकारान् पृच्छति यत् पुरुषं व्यदधुः । यदा पुरुष संज्ञं पशुत्वेन देवाः व्यदधुः, तदा कतिधा व्यकल्पयन् । किंप्रकारं मुखाद्यवयवं कल्पितवन्त इत्यर्थः । प्रश्नार्थं व्यनक्ति मुखं किमस्य मुखात् किमिति वक्तव्ये मुखमित्यादिप्रथमानिर्देशः कार्यकारणयोरभेदविवक्षया । कावूरू पादावुच्येते । अस्य पुरुषस्य किंप्रकारं मुखम् । उत्पाद्यमानेषु ब्राह्मणादिषु वर्णेषु अस्य मुखं किमासीत् । बाहू च किंप्रकारौ । कावूरू आस्ताम् । कौ च पादावुच्येते । (१२) परिहरति ब्राह्मणोऽस्य मुखमासीत् । ब्राह्मणजातिरजायत । अनेन ब्राह्मणजातिकारणभावो मुखस्य प्रकार उक्तः । एवमुत्तरत्रापि दृष्टव्यम् । बाहू राजन्यः कृतः । बाहुभ्यां क्षत्रियजातिरकारीत्यर्थः । ।