पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

-- - - -- पुरुषसूक्तम् ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३ ॥ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत ।। १४ ॥ नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भयां भूमिर्दिशः श्रोत्रात् तथा लोकाँ अकल्पयन् ॥१५॥ ऊरू तदस्य यद् वैश्यः। यद्वैश्यनामा जातिर्भवति, तदस्य पुरुषस्य ऊरुभ्यामजायतेत्यर्थः। यत्तदोः सामान्यवचनवान्नपुंसकनिर्देशः । मुखादीनां ब्राह्मणादिभिरभेदवादः कार्यकारणभावकृतः । ब्राह्मण प्रकृत्य मनुः - 'तं स्वयंभूः स्वकादास्यात् तपस्तप्त्वाऽऽदितोऽसृजम् । इति । तथा लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् । इति । पद्भ्याँ शूद्रो अजायत । निसर्गसिद्धः शूद्रवर्णः । अथ यष्टव्यानां देवतानां सृष्टिमाह-चन्द्रमा मनसो जातः। सकार(रा १) भावश्छ।न्दसः (१) चक्षोस्सूर्यो अजायत । चक्षुर्भ्यामिति विभक्तिव्यत्ययं करोति । मुखादिन्द्रश्चाग्निश्च । अजायेतामिति संबन्धः । प्राणाद्वायुरजायत । सिद्धोऽर्थः । अनुष्ठितयज्ञानां (१) ब्राह्मणादीनामुपभोगाय लोकानां सृष्टिमाह नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिरिति । समवर्तत इत्यनुषङ्गः । दिशः श्रोत्रात् समवर्तन्त । तथा लोकाँ अकल्पयन् । तथा, यथा अतीते कल्पे देवा अकल्पयन् । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।' नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' इति । 'दिवं च पृथिवीं चान्तरिक्षमथो सुवः' इति । एवं सृष्टियज्ञं समाप्य पुनरपि त्रिपादं महान्तं पुरुषं कः साक्षाज्जानातीति प्रश्नमुखेन स्तोतुमारभते । ब्रह्मादिस्तम्बपर्यन्तस्य जगतः परमकारणं पुरुषं पति-