पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

३३४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते॥१६॥ धाता पुरस्ताद् यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः। पुरुषसूक्तसूक्तरूपं को वेत्ति ? तत्राह वेदाहमेतमिति । सहस्रशीर्षमि ( र्षाइ ) त्युक्तमेतं महान्तं पुरुषमहं वेद जानामि । नान्यः कश्चित् वेद वेत्तीति वेदानामात्मनो वचनम् ; अस्य सूक्तस्य ऋषेर्नारायणस्य वाक्यं वा । किस्वरूपम् ? आदित्यवर्णम् । 'आदित्यवर्णं पुरुषं वासुदेवं विचिन्तयेत् । इति मोक्षधर्मे । कावस्थितं वेत्ति ? (त्सि) तमसस्तु पारे। तमश्शब्देन प्रकृतिरुच्यते । प्रकृतेः परस्तात् स्थितं वेत्ति । तमसः परमो धातेत्यस्ति । कियांश्वायम् ? महान् पुरुषः। कदाः]। सर्वाणि रूपाणि विचित्य धीरः । सृष्टानां चराचरात्मकानि रूपाणि विचित्य समुत्पाद्य, अथवा वैविध्येन च बुध्वा तेषां नामानि च कृत्वा तैः तान्यभिवदन् धीरः धिया रममाणः परमविद्वानभिवदन् तैस्तैर्नामभिराभिमुख्येन वदन् यदा आस्ते, तदा तं पुरुषं वेत्ति । इतश्चाहं वेद्भि । कोऽसावेवंविधः पुरुषः ? क्वायमास्ते ? विशदं ब्रूहि [इति? ] चेदहमप्यविप्रकर्षेण जानामि ; न वेद्मीत्याह धाता पुरस्ताद्यमुदाजहारेति । पूर्वस्मिन् काले चतुर्मुखो यम् आत्मनः कारणभूतमुदाजहार='तमब्रवीत् त्वं पूर्वं समभूः । त्वमिदं पूर्वः कुरुष्वे । त्यादिषुदाहृतवान् । तथा शक्रः प्रविद्वान् प्रकृष्टज्ञानः शकः विग्रहवति वासुदेवेऽधिगतपुरुषोत्तमत्वज्ञानः इन्द्रो यं परमकारणत्वेनोदाहृतवान् इन्द्रप्रतर्दनसंवादे, 'प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामे ' त्यादौ श्रुतौ । तथा प्रदिशश्चतस्त्रः । प्रदिशश्च यमुदाजहुः । दिक्छब्देन दिग्वर्तिनो ज्ञानवन्त उच्यन्ते । दिगधीनाः पुरुषा उपलभन्ते । तथा श्रीरामायणे विश्वामित्रवचनम् , । अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजाः ये चेमे तपसि स्थिताः' इति ॥ तत्रैव रावणवधानन्तरं रामं प्रति ब्रह्मणो वाक्यम् । यथाह 'भवानारायणो देवः श्रीमान् चक्रायुधो विभुः ।