पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् ३३५ तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय ॥ १७ ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । एकशृङ्गवराहस्त्वं भूतभव्यसत्रजित् । अक्षरं ब्रह्म पारं त्वं मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मों विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।' अत्रैव लक्ष्मण प्रति दशरथवाक्यम् , यथा एतत्तदुक्तमव्यक्तमक्षरं ब्रह्म निर्मितम् । वेदानां हृदयं सौम्यं गुह्यं रामः परंतपः । अत्रैव मन्दोदरीवाक्यम् , यथा 'व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् । तमसः परमो धाता शकचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः' इति । वेदोऽपि स्वकण्ठेन महान्तं पुरुषं वक्तुमशक्नुवन् तदीयानि चिह्नानि आहेत्यवगन्तव्यम् । तमेवं विद्वानमृत इह भवति । श्रुतिर्वदति । तं परमं पुरुषं एवं जातामादिकारणं विद्वान् जानन् अमृत इह भवति इहैव जन्मनि अमृतो भवति । संसारबन्धान्मुक्तो भवति । नान्यः पन्था अयनाय विद्यते । अयनाय मोक्षाय एवंविधपुरुषज्ञानादन्यः पन्था न विद्यते ।

  • अयनं निलये मार्गे मुक्तौ चापि प्रकथ्यते ' इति निखण्डुः ।

इदं पुरुषसूक्तप्रतिपाद्यपुरुषज्ञानं मोक्षोपाय इति । उपक्रान्तं सृष्टियज्ञमुपसंहरति यज्ञेन यज्ञमयजन्त देवाः । यज्ञसाधनभूतचतुर्मुखाख्यपशुहविषा यज्ञमयजन्त सृष्टियज्ञमकुर्वत -- धातुरनुवादः - देवाः साध्याः देवाः तदिन्द्रियाणि वा। तानि धर्माणि प्रथमान्यासन् । (१)सृष्टियजनामिदेवानां सर्गविषया व्यवहाराः धर्माणि प्रथमानि मुख्यानि लोक-