पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितम् ते ह नाकं महिमानः सचन्ते यत्र पूर्वं साध्याः सन्ति देवाः ॥ १८ ॥ ॥ श्रीरस्तु ॥ 1 III. I. श्रेयस्साधनान्यासन् । मोक्षहेतुतया प्रधानभूता इत्यर्थः । ते ह नाकं महिमानः सचन्ते । मह पूजायाम् । मनिन्प्रत्ययः । पूजयन्तः = भगवन्तं नारायणमर्चयन्तः नाकं सचन्ते । कमिति सुखनाम् । अकं दुःखम् । तत् यत्र नास्ति, तन्नाकं परमव्योम प्राप्तवन्तः । भगवचोदितो ब्रह्मा लोकसृष्टिं तदाराधनं बुद्धयाऽनुष्ठि (ष्ठाय त !) तो वैकुण्ठख्यं परं पदं प्राप्तवान् । असचन्त प्राप्तवन्तः । बह्रृचपाठे अडागमाभावश्छान्दसः। तैत्तिरीयपाठे भूतार्थे । 'नाकोऽम्बरेऽपि च स्वर्गे परमव्योम्नि च स्थितः' इति । 'एको विष्णुर्जंगस्वामी वासुदेवः सनातनः' इति श्रीवाराहेऽप्यस्ति । यत्र पूर्वे साध्याः सन्ति देवाः । यत्र नाके पूर्वे पूर्वस्मिन् साध्या नाम देवाः सूरयो वर्तन्ते । पतिमिति देवमेवैतत्सूक्तं व्याचक्रिरे । तस्मात् विराड- जायत । विराडाख्यः प्रजापतिरजायत । विराजो अधि पूरुषः । वैराजो मनुर्नाम पुरुषः । यत् पुरुषेण हविषा देवाः । देवाः मन्वादयः जगत्सिसृक्षवः । तेन देवा अयजन्त- साध्यानामृषीणां देवानाञ्च पुराकल्पे ध्यानमययज्ञानुष्ठानानुकीर्तनम् । तस्माद्यज्ञादिति ध्यानमयात् यज्ञात् जगदुत्पत्तिवादः । यत् पुरुषं व्यदधुः । पुरुषं परमपुरुष यं सहस्रशीर्षत्वादिविशेषणविशिष्टं जगन्मूलकारणत्वे व्यदधुः, तं कतिधा व्यकल्पयन् कियत्प्रकारं न्यरूपयन्त देवाः । प्रश्नविवरणमुत्तरञ्च पूर्ववत् । तथा लोकाँ अकल्पयन् । ब्राह्मणादीनां भूम्यादीनां लोकानाञ्च परमपुरुषमुखाद्यवयवेभ्यः सृष्टिर्यथा कथिता, तथा देवा अकल्पयन् निश्चितवन्तः । एवं सृष्टान् लोकान् व्यनक्ति .... यज्ञेन यज्ञमयजन्त ध्यानमयेन जीवात्मयज्ञेन यज्ञात्मानं नारायणमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । एवं कृताः ध्यानमययज्ञाः मोक्षहेतुतया मुख्या धर्मा आसन् । तेन देवा आ(c) याजिनो. नाक वैकुण्ठाख्यं प्राप्तवन्त इति । 1. पुरुषसूके तत्रतत्र व्याख्यान्तरोक्तमर्थान्तरमनुवदति विमर्शार्थम् । ---