पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

- . एतद्ब्रह्मयज्ञं (!) तत्तव्द्याख्यातृभिर्व्याख्यातं श्रुतिस्मृतीतिहासपुराणैः नारायणादण्डोत्पत्तिमण्डाद्ब्रह्मोत्पत्तिं प्रतिपादयद्भिः अनाहृतमित्यनादरणीयम् । अतोऽयमेव व्याख्यानप्रकारः प्रशस्यत इति । अत इति । सर्ववेदनिविष्टे सर्ववेदाध्ययनफलप्रदे सर्वसारभूते नित्यब्रह्मयज्ञोपयुक्ते पुरुषसूक्तेऽस्मिन् आदरमतिशयितं वहन्तो महर्षयो विविधं व्याख्यायोपबृंहणमकुर्वन् । एवं मुद्गलोप. निषदादयः श्रुतयः श्रीपाञ्चरात्रग्रन्थाश्चैतदर्थविशदीकरणेदम्परा इति चैतावता विदितमेव ! मत एवार्थवर्णनप्रणालिकाः विभिन्नाः प्राप्ताः । सर्वथा श्रीमतो नारायणस्य भगवतः पुरुषोत्तमस्य पारम्यमत्र प्रस्फुटभावेद्यत इत्यत्र सर्वेषामेकवाक्यतैव । तत्तदभिमतयोजनाभेदपर्यालोचनया वाक्यानामर्थभेदस्य व्यक्त्वेऽपि तद्यद्योजनादर्शितः सर्वोऽस्यर्थ; अबाध्यत्वेन संमन्तुमर्ह एव । तत्र प्रमेयांशानामनेकरवात् वाक्यानाच्चाल्पसंख्यत्वात् तेषां सर्वेषामत्र वाक्येषु निवेशप्रदर्शनस्याशक्यत्वात् , सकृत्प्रयुक्तस्य वाक्यस्यानेकार्थकल्पना न युक्तेत्याशयाच्च स्वस्वाभिमतमेकैमर्थं केचित् प्राचीकशन् । अन्ये पुनरेकतमनिष्कर्षे उदासीनाः बहूनप्यर्थान् एकैस्मिन् वाक्ये, एवं वा, एवं वेति विकल्प्य समघटयन् । यथा- प्रकृतौ परिभ्रमतां जीवानामनन्तत्वात् एषां शीर्षादिवमादायैव सहस्रशीर्षवात्दिकं भगवतः केचिददर्शयन् । सर्वशरीरिणस्तस्य न तन्न घटते । स्वयमेव सहस्रशीर्षादिशालि रूपं दिव्यं विभर्तीत्यन्ये । तदपि विश्वरूपदर्शिनी भगवतः सत्यं स्थितमेव । शीर्षाद्यभावेऽपि शीर्षादिकार्यकरणशक्तत्वात् सहस्रशीर्षत्यादिव्यपदेश इति परे। तदपि, 'अपाणिपादो जवन इत्यादिश्रुतिबलात् स्वीकर्तव्यमेव । एवं दशाङ्गुलपदेऽपि सामान्यत आनन्त्यं विवक्षन्ति केचित् । दश विधवस्तुव्यापनमेव भगवति निरूपयन्त्यन्ये । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इत्यत्र चातुर्व्यूहविवक्षा विनैवार्थं वर्णयन्ति केचित् । अन्ये तद्विवक्षयैव । विराडजायत, विराजोऽधिपूरुषः इत्यत्र प्रकृतिजीवाविरिभाववर्णनं केषाञ्चिदमिमतम् | अनिरुद्धचतुर्मुखयोराविर्भावमन्ये । ब्रह्माण्डब्रह्मणोरूत्पत्तिं परे । ब्रह्मणो मनोश्चोद्भवं परे। सर्वमिदं प्रमाणान्तरप्रमितमेव । अथ यो यज्ञः प्रस्तुतः, यत् पुरुषेण हविषा देवा यज्ञमतन्वतेत्यादिना, स किमग्नौ वास्तबहोमसंवलित एव, उत ध्यानमय इति परामर्शे, मुखादिन्द्रश्चाग्निश्चेति अग्नेरपि अन्याविशेषमग्र एवोत्पादनीयतया ध्यानमय एवायं युक्त इति कृत्वेव प्रायो ध्यानपक्षमेव परि- गृह्णन्ति । बाह्ययागापेक्षया हार्दयागस्य विशेषतो भगवत्समाराधनत्वं व्यक्तमन्यत्र । ध्यानस्य ध्यातृसमवेतेन्द्रियसाध्यत्वात् देवशन्द इन्द्रियपर इति केचित् । नित्य सूरीणामपि अभिमानितया नियन्तृतायाः श्रीविष्णुपुराणादिप्रतिपन्नत्वात् नित्य सूरि विशेषा एव साध्या देवा इत्यन्ये । एवं तावत् तत्सदमन्योक्तं सर्वमपि संकलय्य परामर्शे समादरणीयमेव भवेदिति नात्रैकस्मिन् पक्षे अभिनिविश्य पक्षान्तरस्य असत्त्वमाशङ्कनीयमिति विभावनमुचितं लक्ष्यते । एवं स्थिते यदिदं किचिदिह प्रस्तुतमस्ति प्रकृतभाष्ये, किं सर्वमिदं तत्तदवयवविशेषेभ्य उत्पन्नतयेह वर्णितं 43