पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् चतुर्मुखशरीरादुत्पन्नतया वर्ण्यमानं संमन्तव्यम् , उत परमपुरुषतिग्रहादेवेति दिवादे द्वितीयः पक्षो न ग्राह्य इति । अत्र किञ्चिद् वक्तव्यं लक्ष्यते-तत्रतत्र पक्षान्तराणासत्त्वाभाववत् अत्राप्यसत्त्वाभावः संमन्यताम् । अतः साऽपि योजना कामं भवस्विति । कल्पादौ चतुर्मुखशरीरात् विविधा वैकृतसृष्टिर्भवतीति श्री विष्णुपुराणे (१.५.) प्रतिपादितमिति तत्र न संदेहः । तथाहि तत्र देवादिसृष्टिमुपवर्ण्य, एतानि सृष्टा भगवान् ब्रह्म! तच्छक्तिचोदितः' इति तिर्यक्स्थावरसृष्टिं प्रस्तुत्य, तत्र कृतयुगस्य ध्यानप्रधानत्वेऽपि त्रेतायुगस्य यज्ञप्रधानत्वात् तदा ग्राम्यारण्य विभागोऽपि पशूनां तेन कृत इति कथयित्वा, गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः । एतान् ग्राम्यान् पशूनाहुः आरण्यांश्च निबोध मे । श्वापदा द्विखुर हस्तिवानराः पक्षिपञ्चमाः । औदका पशवः षष्ठाः सप्तमाश्च सरीसृपाः' इति ग्राम्यान्, अन्यांश्र पृथक् परिगणय्य, तस्यैव चतुर्भ्यो मुखेभ्यः ऋगादिचतुर्विधवेदादिसृष्टिमभिधाय,नाम रूपश्च भूतानां- देवादीनां चकार सः 'इत्यादिनोपसंह्रतम् । एदमपि तत्रैव, १-१२. ध्रुवस्तोत्रे पुरुषसूक्तार्थविवरणे परमपुरुषविग्रहादेव सर्वेषामुत्पत्तिरभिहितेति स्वरसतः प्रतीयते। तथाहि शंखप्रान्तेन स्पृष्टवन्तं धुरि प्रत्यक्षमागतं गोविन्दं ध्रुव एवं स्तौति- बृहत्त्वाद् बृंहणत्वाच्च यदूपं ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन् योगिचिन्त्याविकारवत् । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद् दशाङ्गुलम् । यद्भूतं यच्च वै भव्यं पुरुषोत्तम तद् भवान् । त्वत्तो विराट् स्वराट् सम्राट त्वत्तश्चाप्यधिपुरुषः । अत्परिच्यत सोऽधश्च तिर्यक्चोर्ध्यश्च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तो भूतभविष्यती । त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् ।' 'त्वत्तो ऋचः-', 'त्वत्तोऽश्वाश्च-', त्वन्मुखाद् ब्राह्मणा:-', 'अक्ष्णोः सूर्योऽनिलः प्राणात्', त्वतः सर्वमभूदिदम् ' इति । अत्र साक्षात् गोविन्दः सर्वत्र युष्मच्छब्दैरभिधीयते । अधिपुरुष इत्युक्तः अधिकारिपूरुषः चतुर्मुखस्तु परोक्षतो निर्दिश्यते । तत्कार्यकथनावसरे च 'अत्यरिच्यत सोऽधस्तात' इत्येवम् । त्वदूपधारिण इत्यर्धस्य च, 'तस्य चतुर्मुखस्यापि जगदिदमन्तश्चेत् किंपुनस्तवेति भावः' इति श्रीविष्णुचित्तीय विवरणं कृतम् । तथाच त्वद्रूपधारिणस्तस्याङ्गेभ्य इत्यनुक्त्वा त्वत्त इत्येव सर्वत्र निर्देशः सर्वस्य परमपुरुषजन्यत्वं दर्शयति । अवान्तरसर्गेषु चतुर्मुखकर्तृक सर्वसृष्टिसद्भावेऽपि आदिसृष्टी भगवानेव सर्वं सृजतीति नामसहस्रभाष्येऽप्युक्तम् । श्रीदेशिकचरणाभिमतश्चेदमित्यादिकमिह वक्तव्यं सुबालोपनिषत्परिष्कारे (पु. २०१-२०२) अस्माभिरुक्तम् । यत्र मूलश्रुतिः चतुर्मुखकर्तृकसृष्टिपरेव भगवत्कर्तृक सृष्टिपराऽपि लक्ष्यत इति भङ्गया व्यज्ञापयाम । वेदान्तपुष्पाञ्जलावपीदं द्रष्टव्यम् । अतोऽन्यादृशव्याख्यानमपि उपादेयमेव भवेदिति । -- .