पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुरुषसूक्तम् श्रीशास्त्रपुरुषसंहितायाम् , - 'सहस्रशीर्ष त्यत्र सहस्रोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुळवचस्त्विदम् ॥ अत्र प्रथमया विष्णोर्देशतो व्याप्तिरूच्यते । द्वितीययाऽस्य विष्णोश्च कालतो व्याप्तिरीरिता । विष्णोर्मोक्षप्रदातृत्वकथनं च तृतीयया । एतावानितिमन्त्रेण वैभवं कथितं हरेः ॥ एतेनैव च मन्त्रेण चतुर्व्यूहोऽपि भाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ।। तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तः प्रदर्शिता ।। यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।। सप्ते परिधयश्चापि समिधश्च समीरिताः । तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ।। तस्मादिति च सप्तर्चा जगत्सृष्टिः समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ यज्ञेनेत्युपसंहारः सृष्टर्मोक्षस्य चेरितः । य एवं तु विजानाति स हि मुक्तो भवेत् ' इति ॥ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण पतिपादितम् । सेयमुपनिषदुच्यते- 'वामदेव आङ्गिरसः स्वपूर्वप्रज्ञा समन्वारब्धः अत्रिपत्न्या अनसूयाया गर्भ एवं शयानो ब्रह्म वेदयाश्चक्रे । स हि गर्ने पुरो हित्वा ब्रह्मलोकमुश्चक्राम | मध्ये ध्यानमुपनिषद्युवाच । भगवांस्तु गर्भपञ्जरमेवाभिनिविशमानो विज्ञानब्रह्म जानासि 1. मुद्रितमुद्गलोपनिषत्कोशे अत्र च महान् पाठभेदः । अशुद्धयश्चोभयत्र ।