पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तोपायः (१)। अकस्मात्किञ्चिद्विगतासंगस्सर्वैः वन्द्यमानोऽध्वनः पारमुपगच्छसि । तदेतदिहाश्चर्यम् , यद् बालस्य गुरुमनुपेयुषोऽधिगन्तुश्च भगवतोऽकस्मात् विशब्दो ब्रह्मप्रत्ययः; विपरीतस्य विपरीतम् । सोऽहं भगव उप त्वा सेदिवांश्चास्मीत्यादिभिश्चतुर्भिः खण्डैरिन्द्राय भगवान् ज्ञानमुपदिशन् पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्तार्थं द्वाभ्यां खण्डाभ्यामुपादिशत् । तौ खण्डावुच्येते- योऽयमुक्तः, स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञानं वेषं विहाय क्लेशादिसंसृष्टान् देवादीनुज्जिहीर्षुतया सहस्रावयवकल्याणं दृष्टिमात्रेण मोक्षदं वेषमाददे। तेन रूपेण भूम्यादिलोकजातं व्याप्यानन्तयोजनमत्यतिष्ठत् । स पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् । स एव सर्वेषां मोक्षदश्वासीत् । स च सर्वस्मात् महिम्नो ज्यायानासीत् । स च ज्यायान् महापुरुषः आत्मानं चतुर्धा कृत्वा त्रिपादेन परमव्याम्नि भासते ; इतरेण चतुर्थेनानिरुद्धेन नारायणाख्येन विश्वान्यासन् । स च पादनारायणो जगत् स्रष्टुं प्रकृतिमजनयत् । सा च प्रकृतिः ब्रह्माण्डभूता, यत्र स ब्रह्माणमजनयत् । स समृद्धकायस्सन् सृष्टिकर्म न जज्ञिवान् । सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् , 'ब्रह्मन् ! तवेन्द्रियाणि याजकानि ध्यात्वा जगत्कोशभूतं दृढप्रन्थिकळेबरं हविर्ध्या॑त्वा मां हविर्भुजं ध्यात्वा वसन्तमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं पुरोडाशं ध्यात्वा पृथिव्यप्तेजोवाय्वाकाशाहङ्कारबुद्धि परिधिं ध्यात्वा पञ्च भूतानि तन्मात्राणि ज्ञानकर्मेन्द्रियाणि अन्तःकरणं चैकविंशति समिधं ध्यात्वा मध्येवाग्नौ त्वां योजय । मदङ्गस्पर्शनात् त्वत्कळेबरं बृंहिष्यति । ततः त्वत्कायात् सूक्ष्मसृष्टिहेतुभूतं पृषदाज्यं भविष्यति । सर्वाणि (2) निबिडाः पश्चाद्या: प्रादुर्भविष्यन्ति । ततश्चराचरं जगद्भविष्यति । एतेन जीवात्मनो योगेन मोक्षप्रकारोऽपि कथ्यत इत्यनुसंधेयम्- इति प्रथमः । य इमं सृष्टियज्ञं जानाति मोक्षप्रकारच्च, सर्वमायुरेति ; अरोगश्च भवति ; श्रीमांश्च भवति ; पुत्रपौत्रादिसमृद्धो भवति । विद्वांश्च भवति । महापातकात् पूतो भवति । सर्वगमनात् पूतो भवति । कामक्रोधादिभिरबाधो भवति । सेवेभ्यः पापेभ्यः पूतो भवति । इहैव जन्मनि पुरुषो भवति । तमेवं पुरुषसूक्तार्थ- मतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् ; नाप्रियवादिने;