पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

। पुरुषसूक्तम् नायज्ञशीलाय; नासंवत्सरवासिने ; नासंतुष्टाय ; नानधीतवेदाय । गुरुरप्येवम्भूतः शुचौ देशे पुष्ये नक्षत्रे प्राणान् आयम्य पुरुष ध्यायन् उपसन्नाय शिष्याय दक्षिणे कर्णे सकृत् पुरुषसूक्तार्थमुपदिशेत् । न बहुशो वदेत् । यातयामं भवतीत्य.. तूर्णमुदिशेत् । एवं कुर्वाणोऽध्येताऽध्यापक.श्च इह जन्मनि पुरुषो भवति--इति द्वितीयः खण्डः ।।

  • सहस्त्र-ईरिता

पूर्वस्मिन्ननुवाके मुमुक्षपास्यं परं ब्रह्म अकारवाच्यः स एव परमेश्वर इति सादरमुक्तम् । अस्मिन् प्रसङ्गे सकलवेदान्तेषु कारणत्वेन ब्रह्माक्षरशिक्शम्भुपुरुषहरिदेवादिसामान्यशब्देन प्रतिपादित्स्य विशेषाकाङ्क्षया तत्तच्छब्दसमभिव्याहारेण नारायणं सविशेष इति र्यन्तापेक्षितार्थनिर्णयाय नारायणानुवाके क्रियते । “लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि " इत्यस्मिन्नधिकरणे भगवान् भाष्यकारो रामानुजमिश्री बहुभिर्न्यायक्लापैरेवमुदीरितवान् । क्षेमाय यः वरुणय! क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागगाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति श्रीरङ्गरामानुजस्वामिविचितं पुरुषसूक्तभाष्यं संपूर्णम् । ।। शुभमस्तु ।। येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ ॥ श्रीरस्तु ॥

  • एतदारभ्य न पुरुषसूक्तव्याख्यानम् । अथापि मातृकायां स्थितं प्रकाश्यते। एतद्ग्रन्थदर्शनात् , उपक्रमे प्रसङ्गात् पुरुषसूक्तेति वाक्यदर्शनाच्च पुरुषसूक्तव्याख्यानमिदमेतदीयग्रन्थान्तरमध्यनिवेष्टमिति ज्ञायते । पुरुषनिर्णयादिग्रन्थवत् नारायणस्य पारम्यं स्थापयितुं प्रणीत:

कश्चन प्रबन्ध एतदीयोऽयमिति विभाव्यते । लेखकैर्वा शुद्धमातृकानुपलाम्भादिवशात् तालकोशे संकीर्णं कृतं भवेत् । अस्तु कथमपि । भाष्यं तु पुरुषसूक्तस्य लब्धं समग्रमिति संतोष्टव्यम् । अत्र पूर्वस्मिन्ननुवाके इति तैत्तिरीये नारायणानुवाकात् पूर्वोऽनुवाक उच्यते । तर्हि तैत्तिरीयव्याख्यानस्य कस्यचिन्मध्ये पुरुषसूक्तव्याख्यानं प्रासङ्गिकं घटितमिति भाव्यत इति चेत्-किमनेन निष्कर्षापर्यवसायिनोल्लेखेन । 1. श्लोकोऽयमौचित्यात् योजितः । -