पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४२ श्रीवीरराघवाचार्यविरचितः परिष्कारः इत्थं पौरुषसूक्तभाष्यमुपलभ्यामृश्य, कोशे क्वचित् निर्देशेन च रङ्गलक्ष्मणमुनेः कर्तृत्वमादृत्य च । ईशाद्यागममौलिभाष्यवदिदं सूक्तार्थसंवेदनं साधु स्यादिति सज्जनप्रियधिया प्राकाश्यमानीयत || ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना । भाष्यं पुरुषसूक्तस्य संग्रहेण परिष्कृतम् ॥ इति वात्स्यसच्चक्रवर्तिवीरराघवाचार्यकृतः पुरुषसूक्तभाष्यपरिष्कारः। शुभमस्तु॥ 1 श्रीः श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । द्वयोपनिषत्परिष्कारः श्रीमत्तयीशिखरलक्ष्मणसंयमीन्द्रसेवात्तमन्त्रवर एष तदर्थवित्त्यै । श्रीरङ्गलक्ष्मणमुनेश्वरणाजसेवी दृष्टां द्वयोपनिषदश्च परिष्करोमि ॥ प्रपन्नजनसंतानकूटस्थ श्री पराङ्कुशमुनि-श्रीभगवनाथमुनिपरम्पराप्राप्तेषु प्रतितन्त्रेषु यदन्यतमं प्रपत्तिरूपं हितम्, तत्र करणमन्त्रतया तैरादृतं तावत् द्वयमिति मन्तरत्नम्। यत् खलु श्रीभगवद्रामानुजमुनिना गद्ये, 'अत्र द्वयम् ' इति, 'येन केनापि प्रकारेण द्वयवक्ता 'इति, 'द्वयमर्थानुसंधानेन सह सदैवं वक्ता' इति चाभ्यस्य निर्दिष्टमनन्तरैस्तत्संप्रदायप्रवर्तकैः सर्वतोमुख- विहितपरश्शतव्याख्यामुखरितनिखिलदिङ्मुखं विजयते । यस्य खलु सकृदुच्चारणेन यथोपदेश- कृतेन, विश्वामित्रोपदिष्टमन्त्रजपेन शुनश्शेफ इव पुरुषपशुः, सर्वोऽपि पुरुषो बद्धो भगवतः श्रीमतो नारायणस्य निरवग्रहेणानुग्रहेण नियतं बन्धाद विमुच्यत इति रहस्यविदो निश्चिन्वन्ति, तस्यास्य मन्त्ररत्नस्य द्वयाख्यस्य प्रकाशिकेयं द्वयोपनिषत् । अस्य द्वयस्य विषये श्रुतिः प्रथमं प्रमाणं स्थितमिति श्रीदेशिकचरणैः श्रीमति रहस्यत्रयसारे संदर्शितमेव । यथा,-'सारनिष्कर्षाधिकारश्लोके, 'उपनिषदमृताब्धेरुत्तमं सारमार्याः' इत्युपनित्सारत्वकथनात् अष्टाक्षरोत्तमश्लोकयो. अथर्वनारायण-गीतोपनिषद्गतत्ववत् द्वयस्यापि किञ्चिदुपनिषद्तत्वमुदितम् । तदधिकारमध्ये च, 'द्वयमपि कठश्रुत्याद्युक्तरीत्या सकृत् स्वोच्चरणकर्तुः सर्वप्रकारेण कृतकृत्यताकरणचणप्रभावशाली ' ति द्वयस्य कठश्रुतिगतत्वमभ्यधायि । तत्र सारास्वादिन्याम् , 'यः सकृदुच्चारः संसारतारको भवती ' ति श्रुतिवाक्यमुपात्तम् । सारप्रकाशिकायाम् , 'तत द्वयं सकृदुच्चारः संसारविमोचनं भवतीति वाक्यानुपूर्वी गृहीता । द्वयाधिकारे चाचार्यैः, 'द्वयम् । इदं कठवल्लयां पृथक्यगुपदिश्य संमेल्यानुसंधेयतया विहित-