पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयोपनिषत् ३४३ त्वात भगवच्छास्त्रे श्रीप्रश्नसंहितादिषु वर्णोद्धारादीन्यपि विधाय प्रतिपादितत्वाच्च श्रुतिमूलतान्त्रिकमन्त्रभूतम्। इदं पूर्वाचार्यवाक्यमिति केषाञ्चिदुत्तिश्च, आप्ता उपदेष्टार त्यादरणार्थ वा, परमाचार्यः सर्वेश्वर एव भगवच्छास्त्रे समुपदिष्टयानित्यतो हेतोर्वा; भवितुमर्हति ' इति अस्य कठवल्लीरूपश्रुतिगत. त्वमश्रावि । अत्र सारास्वादिन्याम्-कठवल्ल्यामष्टाक्षरप्रकरण एव द्वयस्य पूर्वखण्डमुपदिश्य, 'पूर्णमद' इत्यादिकं पठित्वा, 'परमपुरुषार्थेच्छुः खण्डद्वयं संमेल्य सकृदुच्चारयेत् ' इति विहितत्वात् इति व्याख्यायि । सारप्रकाशिकायां विभज्योक्तिः मूलनिर्दिष्टया. " अथात: श्रीमद्वयोत्पत्तिः । वाक्यो द्वितीयः । षट् पदानि । अर्था दश । पञ्चविंशति अक्षराणि । 'पञ्चदशाक्षरं प्रथमम् । दशाक्षरमपरम् । नवाक्षरं प्रथमपदम् । द्वितीयतृतीयचतुर्था त्र्यक्षराणि । पञ्चाक्षरं पञ्चमम् । द्वयक्षरः षष्ठः इत्यादिषु विभज्योक्तेः" इति मुखान्तरेण विवृता । तत्रोपात्तानि वाक्यानि सर्वाणि उपनिषद्गतानीति स्पष्टम् । तत्र श्रीप्रश्नसंहितादिगतवर्णोद्धारक्रमश्च सारास्वादिन्याम् , श्री: प्रथमाक्षरम् । मकारो द्वितीयाक्षरम् ' इत्यादिक्रमेणेति वाक्येन विशदितः। सारप्रकाशिकायां तत्र, " नवार्ण विद्धि हृदयं त्रितयार्णं शिरो मतम् | शिखामें त्र्यक्षरं विद्धि कवचं तद्वदेव हि । अस्त्रं पञ्चाक्षरं नेत्रं द्वयक्षरं परिकीर्तितम् । श्रीमच्छब्दात् परे युर नारायण इतीष्यते । तत्परे चरणौशब्दः तत्परे शरणं तथा । प्रपद्ये तत्परे युक्तं नमश्शब्दमतः परम् । श्रीपते च तथा युक्तं परे नारायणाय चेति मन्त्रोद्धारक्रमोक्तेश्व" इत्युक्तमस्ति । अत्र मन्त्रानुपूर्वी स्पष्टा । परंतु उत्तरखण्डे नमश्शब्दः प्रथममिति अत्र प्रतीयते। श्रुतिमनुसृत्य नमश्शब्दस्यान्ते पाठः साम्प्रदायिक इति तथैव भाष्यम् । एवं श्रीप्रश्नसंहितादिवत् श्रुतेरपि दर्शितत्वात् , सा च श्रुति : कठश्रुतिः, कठवल्लीश्रुतिः इत्यवगमनाच्च द्वयोपनिषदियं यज्ञोपवीतमन्त्रादिवत् श्रुतिरेवेत्यवसीयते । पूर्वापरानुपूर्वीसाहित्येनाध्ययनादर्शनात्तु खिलश्रुतिः। तर्हि किं या प्रसिद्धा कठोपनिषत तत्रैवेयं निविष्टा समुत्सृष्टाध्ययनक्रमा आहो अन्यैवेति विमर्शे, उपनिषत्वपि तत्रतत्रान्यान्यानुपूर्वीदर्शनात् प्रथमं पक्षमपि केचिदनुमन्येरन् । परंतु अष्टाक्षरप्रकरणस्यापि कठोपनिषन्निविष्टतायाः सारास्वादिनीतो. ऽगमात् एकस्यामेव शाखायामनेकेषां खण्डानामुपनिषत्त्वेन परिगणनस्य ऐतरेयतैत्तिरीयादौ सर्वत्रोपलम्भात् श्रूयमाणप्रसिद्धकठोपनिषदानुपूर्वीभङ्गं विनैव कठवल्लीरूपोपनिषदि पूर्वं वा पश्चाद्वा व्यवधानेन वा अव्यवधानेन वा अष्टाक्षरसंदर्भनिमिष्टेयमधीता सम्प्रति उत्सृष्टतादृशाश्ययनेति द्वितीयपक्षमेव बहुलं रोचयेयुः। आनुपूर्व्यध्ययनसंप्रदायभ्रंशे लेखकैर्बहुलं पाठपरिवर्तनमवशादपि कृतं भवतीत्येतदस्माभिः सर्वत्रानुभूतं श्रुतीरपि तादृशीरवश्यमेवास्कन्दति । अत एव हि दशोपनिषदतिरिक्तासूपनिषत्सु आनुपूर्व्यमत्यन्तं संदेहास्पदं सर्वत्र । अत इहोपलब्धासु मातृकासु पाठभेदो न विस्मयमावहति । परंत्वमाकं प्राचीनाचार्य प्रतिपादितविशेषप्रतिपत्तिः यत्र यत्र यादृशयादृशपाठादरणे सुलभा, तत्र तादृशपरिग्रहणं साम्प्रतमिति अत्यन्तविसजातीयो द्वितीयमातृकापाठोऽपि सौकर्याय परस्तात् प्रकाश्य विवरिष्यते । अथ संग्रहेण व्याख्यायते - . A