पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः श्रीमते नारायणाय नमः द्वयोपनिषत् । हरिः ओम्-अथातः श्रीमद्वयोत्पत्तिः । अथात इति । एवमेव अर्थविशेषप्रस्तावारम्भस्तत्रतत्रेति सर्वविदितम् । अस्याष्टाक्षरप्रकरणनिविष्टतायाः सारास्वादिन्यामभिहितत्वात् अष्टाक्षराधिगततत्त्वस्य पुंसो विशेषव्युत्पादनार्थम् , अनुष्ठेयस्य हितस्यानुशापनार्थश्च मन्त्रोऽयं प्रस्तूयत इति संगतिप्रदर्शनमनेन क्रियत इति ज्ञायते । साम्प्रदायिकैश्वाष्टाक्षरविवरणत्वमस्य द्वयस्याभिमतं मन्त्रयोरुभयोरेकप्रकरणपतित- त्वादिकमावेदयति । यथोक्तं श्रीमति रहस्यत्रयसारे, 'श्रीमदष्टाक्षरमन्त्रः परशेषतैकरसस्वरूपोपायपुरुषार्थव्युत्सादनेनोपायाधिकारपूर्तिमुत्पादयति । एवम्भूतस्याधिकारिणः फलापेक्षापूर्वकोपायविशेषानुष्ठानप्रकार द्वयं विशदं प्रकाशयति । मूलमन्त्रे प्रथमपदप्रथमाक्षरसंक्षिप्तं शरण्यपरतत्त्वं मध्यमतृतीयपदप्रतिपन्ने उपायोपेये च क्रमेण विशदयति द्वयम्' इति । यद्यपि द्वये प्रपद्येपदोत्तमपुरुषोक्तस्याधिकारिणोऽधिकार विशेषमुपायान्तरनैरपेक्ष्यं तथा नमश्शब्दसंक्षिप्तं विरोधिनिवृत्त्यंशश्च व्यक्तयति गीताश्लोकः । तावता तस्य द्वयेन सहैकत्र पाठोऽनपेक्षितः । पृथक् पठितयोरप्युपदेशक्रमनियामकमात्रमेतदिति सुवचत्वात् । तद्वदष्टाक्षरस्य द्वयस्य चैकत्र सम्भूय स्थितिर्नापेक्षिता अथापि अष्टाक्षरप्रकरणेऽत्र उपदेश इति व्याख्यातृभिरुक्ततया अथात इत्यत्रायममिप्रायः सुखीकरः । यद्यपि अष्टाक्षरमन्त्र एव, 'कैवल्यं भगवन्तञ्च मन्त्रोऽयं साधयिष्यति' इत्युक्ततया मोक्षविद्याकरणभूतः अथापि जपपुरश्चरणादिसापेक्षमन्त्रमूलं फलं प्राप्तुमशक्तान् प्रति सकृदुच्चारणेन संसारमोचकोऽयं मन्त्रविशेषः अथात इत्यारभ्यत इति ध्येयम् । श्रीमद्वयोत्पत्तिः । द्वयस्य श्रीमत्वं विशदज्ञानविरहिणः पुरुषस्य समुदायज्ञानमात्रेणापि प्रपत्तौ करणतया स्थित्यर्हत्वम् । द्वयस्योत्पत्तिः अज्ञातस्य ज्ञापनम् । वाक्यो द्वितीय इत्यादिषु व्यत्ययश्छान्दसः । वाक्यद्वयात्मकमित्यर्थः । इदश्च स्थूलरीत्या । वाक्यत्रयरूपत्वस्यापि स्वीकारात् । उत्तरखण्डं वाक्यद्वयात्मकं ह्यभिमतं द्वयार्थविवरणे । एवं तर्हि अस्य द्वयमिति कथं नामेति चेत् - उपायोपेयोभयप्रतिपादकतया द्वयत्वम् । श्रीमान् नारायण उपायः प्रथमखण्डे उक्तः । तादृश एव स उपेय उक्तो द्वितीये। यस्त्र प्रपत्तिरूपस्य साध्योपायस्यानुष्ठाने स सिद्धोपायो भवेत् , यस्य व मोक्षस्य प्राप्तौ स उपेयो भवेत्-तदुभयमप्यत्र निरूप्यते तच्छेष- तया । अत एवोक्तम् , 'उपायोपेयरूपार्थद्वय प्रतिपादकत्वात् द्वयम् वरणसमर्पणयोः खण्डद्वये क्रमेण प्रतिपादनात् द्वमित्यपि केचित् ' इति श्रीमद्रहस्यत्रयसारे। द्वितीयपक्षश्चात्र निर्दिष्टः फलान्तरकामनयापि द्वयस्य प्रयोज्यत्वे तत्र द्वयत्वनिर्वाहायेति ध्येयम् । .