पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयोपनिषत् ३४५ वाक्यो द्वितीयः । षट् पदानि । अर्था(र्धा)दश । पञ्चविंशति अक्षराणि । पञ्चदशाक्षरं पूर्वम् । दशाक्षरं परम् । नवाक्षरं प्रथमपदम्। द्वितीयतृतीयचतुर्थ त्र्यक्षराणि । पञ्चाक्षरं पञ्चमम् । द्वयक्षरः पष्ठः। एकाक्षरपदः प्रथमः । एकाक्षरो द्वितीयः । चतुरक्षरस्तृतीयः। चतुर्थपञ्चमपष्ठसप्तमा एवं त्र्यक्षराणि । अष्टमश्चतुरक्षरः। द्वयक्षरो नवमः | दशमो द्वयक्षरः । एतन्मन्त्रस्य प्रतिपत्तिः (एतन्मन्त्रस्य(श्च) प्रपत्तिः ।) पूर्वो नारायणः प्रोक्तोऽनादिसिद्धो मन्तरत्नः सदाचार्यमूलः । 'आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः 1. क्वचित् कोशे, 'आचार्यों वेदसंपन्नः' इति पादमुपक्रमस्थं पठित्या सर्वलोकावसानस्थं, तस्माद गुरुतरो गुरुः' इति पादमात्रं प्रत्याहारेणेव पठितम् । अथ, . 'श्रीमन्नारायण स्वामिन् दासोऽहं तव तस्य वै । परमोप्सुस्तमेवार्थमनुकूलो विवर्जयन् । प्रातिकूल्यं सुविस्रब्धः संप्रार्थ्य शरणं परम् । व्रजामि युष्मच्चरणं तत्रैवाहं मयाऽर्पितः' इति श्लोकद्वयात्मके प्रतिमन्त्रान्तरेऽपि द्वयमिति व्यवहारसद्भावात् तद्वयावृतं प्रकृतमन्त्रस्वरूपमाह षट्पदानीत्यादिना। अर्थाः दशेति पाठे, श्रीः, पुरुषकारत्वम , नारायणः, दिव्यमङ्गलविग्रहः, उपायत्वम् , प्रपत्तिः, उपेयत्वम् , कैङ्कर्यम् , अनिष्टनिवृत्तिः, अनिष्टभूतं विरोधिस्वरूपश्च क्रमेणोच्यन्त इति भाव्यम् । पुरुषकारः, उपायोपेयात्मकसिद्धवस्तु भूतमीश्वरतत्त्वम् , साध्योपेयम् , साध्योपायः, तदङ्गानि च पञ्चेति वा दशार्थाः ।. अर्धाः दशेति पाठे अर्धः शकलमिति, श्री-मत्-नारायण-चरणो-शरणं-प्र-पद्ये श्रीमते-नारायणाय नमः इति शकलदशक ग्राह्यम् । अथवा श्रीशब्दस्य मतुष्प्रत्ययस्य च, एकाक्षरपदः प्रथमः एकाक्षरो द्वितीय इति प्रथमखण्डे पृथकपरिगणनात् तथैवोत्तरखण्डेऽपि परिगणने, श्री-मत् नारायण-चरणौ-शरण-प्रपद्ये-श्री-मते-नारायणाय-नमः इति अर्धाः दश भाव्याः । पञ्चविंशति अक्षराणि । खण्डद्वयगतानि अक्षराणि पश्चविंशतिरित्यर्थः । पञ्चदशाक्षरं पूर्वम् । पूर्वखण्डे अक्षराणि पञ्चदश | शिष्टं स्पष्टम् । आचार्य इत्यादयः श्लोकाः येऽत्र पठिता, तत्रान्तिमश्लोकद्वयम् , 'मन्त्रराजमिमं विद्याद् गुरुवन्दनपूर्वकम् ' इत्यर्धानन्तरं पठित्वा, उपरि, 'नानुकूल्यं न नक्षत्र' इत्यादि च पठित्वा, सर्वमिदं प्रपत्तिमन्त्रान्तरोक्तं द्वयविषयेऽपि महीतुं साम्प्रतमित्युक्त द्वयाधिकारे । स च मन्त्रराजः तद्विष्णोरिति मन्त्र इति तत्र व्याख्या । अत्रोपनिषदि तद्घटकश्लोकद्वयसद्भावेऽपि अंशान्तराभावात् विशिष्टस्य स्थलान्तरगतत्वोक्तिः। अतस्तत्रत्यौ श्लोकापत्रयाबपीत्युक्तौ न दोष हति