पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता मन्त्रज्ञो मन्त्रभक्त्तश्च सदा मन्त्रार्थविच्छुचिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः। एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते । आचिनोति च शास्त्रार्थान् आचारस्थापनादपि । स्वयमाचरते यस्तु तस्मादाचार्य उच्यते । गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते । गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परं धनम् । गुरुरेव परः कामो गुरुरेव परायणम् । यस्मात् तदुपदेष्टाऽसौ तस्माद् गुरुतरो गुरुः । यः सकृदुच्चारितः संसारविमोचनो भवति । [यस्य सकृदुच्चारणेन संसारविमोचनं भवति । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । ] [ यः सकृदुच्चारयति, तस्य संसार [वि ] मोचनं भवत्येव । ] ध्येयम् । सदामन्त्रार्थविदिति । द्वयमर्थानुसंधानेन सह सदैवं वक्ता" इति श्रीभाष्यकागद्यसूक्तेरिदं मूलं बोध्यम् । आचारेति । • आचारे स्थापयत्यपि ' इति, यस्तु इत्यत्र, 'यस्मात् इति च पाठ उदाहरणवशाद् ज्ञायते। यः सकुदुच्चारित इति । अत्र, 'यः सकृदुच्चारः संसारतारको भवति' इत्यानुपूर्वी तत्र तत्रोदाहृताऽस्ति ; अथाप्यर्थतो न भेद इति मन्तव्यम् । द्वयमन्त्रस्य सकृदुच्चारणं मोक्षसाधनं भवतीति मुमुक्षुर्द्वयं सकृदुच्चरेदित्युक्तं भवति । ननु प्रपत्तिमन्त्रान्तरापेक्षयाऽस्यायं विशेषो न लक्ष्यते । किमाचार्यसकाशात् यत् अध्ययनरूपं प्रथमोच्चारणम् , तावदेवेति तदुपरि अनुच्चारणं सकृतित्यभिमतम् , उत प्रपत्त्यनुष्ठानकाले सकृदुच्चारणम् । नाद्यः, अपसिद्धान्तात् । उच्चारणानूच्चारणरूपग्रहणाध्ययनानन्तरं धारणाध्ययनमपि कृत्वा प्रपत्त्यनुष्टानकाले पुनः प्रयोगस्य सर्वसंप्रतिपन्नत्वात् । नान्त्यः; सर्वस्यापि मन्त्रस्य मन्त्रार्थानुष्टानकाले सकृदेवोच्चारणस्य स्वतः सिद्धतया सकृत्पदवैयर्थ्यात् । न चैतन्मन्त्रार्थः कश्चित् पुन पुनरावर्तनीयस्वरूपकर्मविशेषात्मा ; व्रीह्यवघातबहिर्लवनादिवत् ; येन क्रियाभ्यासान्मन्त्राभ्यासे प्रसक्ते तद्वारणार्थं सकृत्पदमिति वर्णनं मन्येतापि । सकृत् कर्तव्यस्य प्रपदनस्यैवार्थतया तदर्थं सकृदेव मन्त्रोचारणसिद्धेरिति , 1 यस्मात्