पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयोपनिषत् चेत् - उच्यते । न प्राथमिकगुरुमुखोच्चारणमात्रस्य पर्याप्तता। अत एव समुदायज्ञानपूर्वकसकृदुच्चारणमिति अर्थज्ञानानन्तरभाव्युच्चारणे सकृत्त्वोक्तिः । गुरुमुखःदध्ययनकाले यत् प्रथममुच्चारणम् , तदनन्तरम् जपपुरश्चरणादिकमष्टाक्षरादिमन्त्रान्तरेष्विष्टं विनैव प्रपत्तिकाले प्रयोगः कार्यकर इति तात्पर्यात् । तथा च सकृदित्यस्य जपादि निरपेक्षेत्यर्थः । अध्ययननिरपेक्षत्वमप्यविशेषादस्त्विनि तु न प्रसक्तिः, सदाचार्यमूल इति प्रागुक्तेः । एवमन्यदपि सकृच्छब्दस्य प्रयोजनं वर्णयन्ति, यथा-प्रपत्तिमन्त्रान्तरस्य प्रपत्त्यनुष्ठानार्थं संकल्प्य प्रयोगे कृते यदि अङ्गपञ्चकसंपन्नप्रपत्त्यनुष्ठानकमस्मृतिभ्रंशेन वा कारणान्तरेण वा प्रपत्त्यनुष्टानं प्रतिरूद्धं भवेत् , तदा कालान्तरे तदनुष्ठाने प्रवृत्तः पुनस्तं मन्त्रमुच्चारयेत् ; उच्चारणादेः सर्वस्यानुष्ठाने साहित्यस्य प्रयोगविधिलाम्भितत्वात् । अयं तु द्वयमन्त्रः, 'सकृदुच्चार' इति उच्चारणे सकृत्त्वविधेः पुनरुच्चारणं विनैव स्मर्यमाणतथैव प्रपत्यनुष्ठापको भवतीति न पुनः प्रयोक्तव्य इति । तथा च संकल्प्य द्वयमुच्चार्य अननुष्ठितप्रपत्तिः पश्चात् वाक्पाटपवैकल्ये प्राप्तेऽपि अवहितेन मनसा अङ्गपञ्चकसंपन्नं समर्पणमनुतिष्ठन् कृतकृत्यो भवतीति मन्त्रस्यातिशय इति । सर्वसाधारणश्चेदं सकृत्वमावृत्त्यनपेक्षत्वरूपम् । संसारविमोचन इति। नन्वेवमुच्चारणस्यैव संसारविमोचनत्वे प्रपत्त्यनुष्ठानमपि मा भूत् । श्रुतिस्वारस्यादिति चेन्न-प्रयोगसमवेतार्थस्मारकत्वस्यैव मन्त्रस्वभावत्वात् स्मरणस्य चानुष्ठानार्थत्वात् प्रपत्तेस्त्यागायोगात् । तदुक्तं न्यासविंशतावाचार्यैः 'नेहाभिक्तान्तिनाश' इति श्लोके, तस्मात् क्षेत्रे तदर्हे सुविदितसमयैर्देशिकैः सम्यगुप्तं मन्त्राख्यं मुक्तिबीजं परिणतिवशतः कल्पते सत्फलाय ।। इति । अत एव प्रपत्तेः मन्त्रोच्चारणात पूर्वानुष्टयत्वं वा उच्चारणाङ्गत्वं वा नैव शक्यशङ्कम्-प्रमाणतर्कविरोधात् । न च वचनबलात् मन्त्रस्यास्याधिकारिविशषे प्रयोगसमवेतार्थस्मारकत्वं विना स्वोच्चारणमात्रान्मोक्षहेतुत्वमेवास्तु इति वाच्यम्-यत्र यत्र प्रमाणे ज्ञानातिरिक्तस्य मोक्षसाधनत्वमुक्तम् , तस्य साक्षात् तथात्व न तात्पर्यम् , किंतु ज्ञानद्वारैवेति ज्ञापनायेव, नान्यः पन्था अयनया विद्यते' इति निषेधश्रुतिप्रवृत्तेः । अतः, अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेत् । मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्यति'इति वचनात्। निक्षेपस्य मध्ये आवश्यकतया संसार विमोचनत्वं नाम संसारविमोक्षहतप्रपतिहेतुत्वरूपमकमेवाज्ञाभिज्ञसाधारणमत्रोक्तम् , श्रुतेरस्याः सर्वाधिकारि साधारण्यादति । तर्हि उक्तेः प्रपातद्वारैव हेतुत्वे उक्तिः कथं पृथक् उपायत्वेन परिगण्यत इति चेत् - मन्त्रोक्तयावदर्थविशदज्ञानापरहेऽपि तदर्थान अविशदभरसमर्पण एवं सत्यपि सवापेक्षितांशङ्कापनक्षमतया पूर्णप्रपत्तिगर्भमन्त्रोच्चारणं कृतमिति तादृशमन्त्राच्चारणरूपाङ्गप्राबल्यं पुरस्कृत्येव भगवान् एतदनुष्टिताविशद प्रपत्तित्वाकारणानुगृह्णातीति उक्तिप्रशंसनाय तथाक्तेः । कञ्च मन्त्राणां स्वप्रकाश्यमानऽर्थे विनियोग हात लिङ्गबलासिद्धम् । मन्त्रश्वायं श्रीमन्नारायणविषये प्रपत्ति कण्ठतो वक्ति। प्रपतिर्नाम प्रार्थनान्वितस्वदुष्करभरसमर्पणरूपेति तदथस्वाभाव्यात्, क्षुद्रफलादिभगवत्प्रातिपर्यन्त सर्वफल साधनताया: परश्शतप्रमाणप्रतिपन्नत्याच्च प्रपत्तौ सर्वफलार्थिनाडपि प्रपत्तिमनुतिष्टता मन्त्रः परिग्राह्योऽयमिति सिद्धयत्येव । तदेवं प्राप्ताप्राप्तविवेके क्रियमाणे, सकृदुच्चारः संसारमोचनो भवती' ति वाक्यमंत्रान्तरस्यार्थसिद्धत्वात् सकृत्वविधानमात्रे 4