पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सर्वान् कामानवाप्नोति ] सर्वपुरुषार्थसिद्धिर्भवति । न च पुनरावर्तते इति य एवं वेद । इत्युपनिषत् । ।। इति द्वयोपनिषत् ॥ (२) (द्वयोपनिषदो मातृकान्तरपाठः) हरिः ओम् - स वा एष महानज आत्मा अन्नादो विन्दते वसु । यो ब्रह्माणं विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। इति होवाच । ऋग्वेदं प्रपद्ये । यजुर्वेदं प्रपद्ये । सामवेदं प्रपद्ये । इतिहास- पुराणानि प्रपद्ये। सत्यं प्रपद्ये। श्रद्धां प्रपद्ये । परमात्मने प्रपद्ये । भागवताय प्रपद्ये । वासुदेवाय प्रपद्ये । ओं प्रपद्ये । नमः प्रपद्ये। श्रीं प्रपद्ये। श्रियं प्रपद्ये। २. अयं द्वयोपनिषत्पाठः श्रीविद्वद्वरिष्ठ श्रीगोष्टीपुराभिजन श्रीसौम्यनारायणाचार्यचरणानुज- श्रीरामदेशिकाचार्यदत्ते तालकोशे उपलब्ध इति वेदान्तदीपिकाख्याया मासिकपत्रिकायां प्रकाशितः | दम्परम् । अतश्च, 'सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्ध: परिकरस्तेन भोक्षाय गमनं प्रति ' इति अक्षरविशेषद्वयस्य चास्य च न विशेष इति न शङ्कनीयम् । श्रीप्रश्नसंहिताद्येनेकोपबृंहणवलेन चास्यैष महिमा स्थापितो भवति । तत सिद्धं अध्ययनानन्तरं विशदज्ञानपूर्व वा समुदायज्ञानपूर्वं वा अपपुरश्चरणादिरूपावृतिनिरपेक्षमेव एतद्द्वयोच्चारणं स्वप्रमेयप्रपत्ति- रूपाङ्गिद्वारा मोक्षपर्यन्तसर्वफलसाधनं भवतीति कृतं विस्तरेण | विवेचितश्चैतदनुबन्धि सर्वं पूर्वाचार्यैः, अस्मदाचार्यैः श्रीरङ्गरामानुजमुनिभिः, अस्माभिश्चान्यत्र विस्तरेणेति नेह प्रतन्यते । सकृत्त्वमिदं संसारविमोचनरूपफलांश एव, न त्वन्यफले उपयुज्यते इति न मन्तव्यम् । परमफलत्वात्तु तस्य प्राधान्येनोक्तिरिति बुबोधयिषया सर्वमपि फलं संगृह्णाति, सर्वपुरुषार्थसिद्धिर्भवति, न च पुनरावर्तत इति ।। " , २ अथ मातृकान्तरमधिकृत्य किञ्चिदुच्यते । अत्र स वा एषइति वाक्यं सर्वफलप्रदसिद्धोपायपरम् । विन्दत इति निजगर्मनिह । यो ब्राह्मणमिति प्रपत्यादिकपमम् । भागिल्यादि प्रपत्तेः