पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयोपनिषत् . यद्वेदा दिव्यगायत्री जयति । तदेषाऽभ्युक्ता। तदेव भूतं तदुपासितव्यम् । तत् पूर्णसौन्दर्यं लक्ष्म्याः । तदेवममृतं सदानन्दं सत्यम् । तत् द्वयम् । सर्वं तव सकृदुच्चारणो (सकृदुच्चारः संसारमोचनो! ) भवति । श्रीमन्नारायणचरणौ शरणं प्रपद्ये। इदं पूर्णमदः पूर्ण पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । सर्व पूर्णमिति । स होवाच- श्रीमते नारायणाय नमः॥ सर्ववेदप्रसिद्धिज्ञप्तये । सत्यं परं ब्रह्म । श्रद्धां लक्ष्मीम् । विश्वासमुख्यत्व या श्रद्धामित्युध्यते। तदर्थं सत्यमिति सर्वशङ्कातङ्कोन्मूलनमित्यादि भाव्यम् । अत्रत्वं सत्यं तद्वयम् सकृदुच्चारः संसारमोचनं भवतीति वाक्यं सार प्रकाशिकायामुपात्तम । सारास्वादिन्यां यदुक्तम् , 'पूर्वखण्डं पठित्वा पूर्णमद इत्यदिपाठानन्तरं उत्तरखण्डस्यापि पाठः कृत' इति, तदप्यत्रैव मातृकायां लक्ष्यते । इदं मनसिकृत्यैवाचार्यैः, मन्त्रोऽयं विभज्याधीतः संमेल्यानुसंधेवत्वेन विहितश्चेत्युक्तमिति चावसीयते । अतो मातृकेयमादरणीया लक्ष्यते । किं पूर्वदर्शितो भागः अयश्चेति सर्वेयमेकैवोपनिषत् ? किंवा अग्निरहस्ये बृहदारण्यके चैकस्यामेव शाखायां शाण्डिल्यविद्यायाः विशकलितपाठ इस कठशाखायामेव स्थले विभिन्ने पृथगनयोः पाठः इत्यादिविमर्शो विमर्शकानां बुद्धिशक्तिमनुरुध्य यथातथा भवतु । स्थितं तु प्रकाश्यते । एकस्यामुपनिषदि श्रूयमाणं वाक्यमुपनिषदन्तरेऽपि तत्रतत्र पठयमानं बहुशै दृष्टम् । तथेहापि श्रुतानि वाक्यानि उपनिषदन्तस्मीत्यैव सन्ति । तथाहि अत्र स वा एष महानज आत्मेति वाक्यं वृहदारण्यके ( ६.४ ) श्रुतप्रायम् । यो ब्रह्माणमिति श्वेताश्वतरीये । सर्वं तदित्यादिना संमिलितोच्चारणं विधीयते । पूर्वखण्डपाठः श्रीमन्नारायणेति । अस्य खण्डस्योत्तरखण्डमेलनेन पूर्णत्वसंपादनार्थोंऽर्थवादः इदं पूर्णमित्यादिः' बृहदारण्यके (५.१) पूर्णमद इत्यादिरयं मन्त्रः पठ्यते। श्रीमते इत्यादिरुत्तरखण्डः। बृहदारण्यक एष पूर्णमद इत्येतत्पाठानन्तरम्, "ओं खं ब्रह्म। खं पुराणम् । वायुर खमितिह स्माह कौरव्यायणीपुत्रः । वेदोऽयं ब्राह्मणा विदुः वेदनेन यद वेदितव्यम्" इत्यानुपूर्वी लक्ष्यते । किं सैवेह लेखकप्रमादात् खंब्रह्मेत्यादिना किश्चिदन्यथाभूता, उत परमार्थरीतिरियमिति विवेचकविमृश्यम् । नूनमिदं सर्वम् , द्वयस्यापि प्रणयः पूर्वमपेक्षितः प्रणबाधिकर्तृपुरुषविषये इति ज्ञापनार्थ प्रवृत्तमिति बृहदारण्यकानुसारेण भाषनीयम्। एतन्मन्त्रार्थश्च रहस्यग्रन्थेषु विशदमनुसंधेयः । अत्र श्रीशब्दार्थनिर्वचने अन्यत्र स्थितोऽस्मदीयोऽयं श्लोकोऽप्यनुसंधानमर्हति य एषः- श्रीस्त्वं श्रिता शरणमीप्सुभिरार्तरावं श्रुत्वा भिमा सपदि शालिभुजान्तरालम् । - "