पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३५० श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता खं ब्रह्म । खं वायुः। खं पुराणम् खमितिहासः। खं घ्रायणीपुत्रः । वेदोऽयं ब्रह्मणो विदुः । वेदायेन वेदितव्यमिति । य एवं वेद । इत्युपनिषत् । हरिः ओं॥ श्रीरस्तु । शुभमस्तु । तं श्रावयस्यथ शृणासि समस्तमेनः श्रीणासि च प्रगुणदास्यविधादिभिर्नः ।। इति । तत् सिद्ध सर्वोपनिषत्प्रतिपाद्यः परब्रह्मभूतः पुरुषोत्तमः श्रीमन्नारायण एव भक्तया प्रपत्या वा प्रसाद्यमानः सर्वमपि पुरुषार्थं प्रयच्छत्तीति सर्व समञ्जसम् ॥ ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना । श्रीवीरराघवार्येण महीपनिषदस्तथा ।। नारायणोपनिषद पुंसूक्तव्याकृतेरपि । द्वयोपनिषदश्चैवं परिष्कारः क्रमात् कृतः । स जयति यतिराजः सोऽपि वेदान्तसूरिः तदुभयपदसेवास्वादधन्याश्च सन्तः । तदनघवचनैकव्यक्ततत्त्वार्थ सर्व- श्रुतिगणसमधीत्या साधु सर्वे जयन्तु । श्रीमद्वेदवतंसलक्ष्मणमुनिश्रीपादसेवी श्रुतीः श्रुत्वा श्रीयुतरङ्गलक्ष्मणमुनिश्रेष्ठान्महिष्टोक्तिभिः । वात्स्यः श्रीशयास्यवीक्षणपदं विख्यातनानाकृतिः विश्वक्षेमपरो व्यधादिति परिष्कारः परो गृह्यताम् ॥ ईशाद्या याः श्रुतय उदिताः श्रीमहारण्यकान्ताः याश्च श्वेताश्वतरमुखगाः श्रीद्वयान्ता दशान्याः । एताः प्राच्यप्रवर विहितव्याक्रियायुक्त्ययुक्ति प्राप्तद्वैधाः समुचितपरिष्कारभव्या जयन्ति ।। इति श्रीवत्सवंशमुक्ताफलायमान सच्चक्रवर्ति श्रीचक्रवर्त्यार्यतनूद्भवस्य श्रीमद्वेदान्तरामानुजसंयमीन्द्रपदारविन्दमधुव्रतस्य श्रीमद्रङ्गरामानुज. संयमीन्द्रचरणारविन्दसेवासंप्राप्तसकलवेदान्तार्थस्य तकीर्णवादिविरदभाजः वीरराघवाचार्यस्य कृतिषु उपनिषद्भाष्यपरिष्कारः।

    शुभमस्तु।