पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्री: महोपनिषदादिचतुष्टयार्थसंग्रहकारिकाः -=-=-

नारायणस्य पारम्यं ब्रह्मेशाद्युद्भवस्ततः । अन्तर्यामितयैक्यञ्च महोपनिषदीरितम् ॥१॥ ऋग यजुः साम चाथर्ववेद इत्येदंशभाक् । नारायणोपनिषदप्याह नारायणं परम् ॥ २ ॥ ब्रह्मरुद्रेन्द्रमुख्यानां ततो जन्म तदात्मताम् । श्रीमदष्टाक्षरमनुं प्रणवस्थाक्षरादि च ॥ ३ ॥ तत्तदंशक्रमेणोक्त्वा मुक्तिहेतोरितो मनोः । सर्वश्रुतिजपाद्याप्यं फलञ्च बहु साऽब्रवीत् ॥ ४ ॥ प्रोक्तः पुरुषसूक्ते स पुरुषोऽद्भूतविग्रहः । प्रकृतिप्राकृतात्मा च त्रिपाद् यस्यामृतं दिवि ॥ ५॥ ब्रह्माणं जनयित्वा तद्यज्ञसंराधितः श्रुतीः । लोकान् प्राणभृतः सर्वान् चातुर्वर्णादिभागिनः ॥ ६ ॥ निर्माति निखिलैरीड्यः स्थितश्च तमसः परे । स उपास्यः ; ततो मुक्तिः ; नान्यः पन्था इतीरितम् ॥ ७ ॥ द्वयोपनिषदि-प्रोक्तः श्रीमान् नारायणः परः । परं द्वयम् ॥ ८॥ श्रीमद्वेदान्तसौमित्रिमुनिपदाब्जसेविना । श्रीरङ्लक्ष्मणामिख्यमुनिहात्तसद्धिया ॥९॥