पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

400 रूपः, परावरः, परापरविद्यावेद्यः, विरजः, निष्कलम् , शुभ्रम् , ज्योतिषां ज्योतिः, चन्द्रार्कवपुः, कृतभूतभावनः, सुपर्णः, सखा, सयुक्, अनश्नन् , जुष्टः, रुक्मवर्णः कर्ता, ईशः, ब्रह्मयोनिः, ज्योतिर्मयः, सत्यपरमनिधानम् , बृहत् , दिव्यम् , अचिन्त्यरूपम् , सूक्ष्मतरम् , परमंधाम, सर्वगः, परामृतम् , दिव्यपुरुषः ।। माण्डूक्योपनिषदि -- जागरितस्थानः, बहिः प्रज्ञः, सप्ताङ्गः, एकोनविंशतिमुखः, स्थूलभुक्, वैश्वानरः, स्वप्नस्थानः, अन्तःप्रज्ञः, प्रविविक्तभुक्, तैजसः, सुषुप्तस्थानः, एकीभूत', प्रज्ञानघनः, आनन्दमयः, आनन्दभुक्, चेतोमुखः, प्राज्ञः, सर्वेश्वरः, सर्वज्ञः, अन्तर्यामी, सर्वयोनिः, प्रभवः, अप्ययः, नान्तःप्रज्ञः, नबहिःप्रज्ञः, नोभयतः प्रज्ञः, नप्रज्ञानघनः, नप्रज्ञः, नाप्रज्ञः, अदृष्टम् , अव्यवहार्यम् , अग्राह्यम् , अलक्षणम् , अचिन्त्यम् , अव्यपदेश्यम् , ऐकात्म्यप्रत्ययसारम् , प्रपञ्चोपशमम् , शान्तम् , शिवम् , अद्वैतम् , अः, उ:, मः, ओम् , अमात्रः, अव्यवहार्यः, प्रपञ्चोपशमः, शिवः, अद्वैतः, आत्मा, ब्रह्म ।। तैत्तिरीयोपनिषदि- विष्णुरुरुक्रमः, विश्वम् , अमृतम् , ब्रह्म, मनोमयः, पुरुषः, अमृतः, हिरण्मयः, इन्द्रः, सत्यात्मप्राणः, सत्यम् , ज्ञानम् , अनन्तम् , ब्रह्म, विपश्चित् , आत्मा, आनन्दमयः, शारीरः, असत् . सत् , सुकृतम् , रसः, आकाशआनन्दः, अदृश्यः, अनात्म्यः, अनिरुक्तः, अनिलयनः, पुरुषादित्यवर्ती, अन्नमयात्मा, प्राणमयात्मा, मनोमयात्मा, विज्ञानमयात्मा, सर्वभूतजनिजीवनसंवेशनहेतुः, परमव्योम, आनन्दः, अन्नम् , अन्नादः, प्रथमजाः, अमृतस्य नाभिः, अम्भस्यपारेऽभिव्यक्तः, भुवनमध्यस्थितः, नाकस्य पृष्ठेनिषण्णः, महतो महीयान् , ज्योतिरनुप्रविष्टः, प्रजापतिः, अन्तश्चारी, सृष्टिस्थितिलयस्थानम् , अक्षरपरमव्योमवासी, कविवेद्यः, विद्युत्पुरुषः, कालकल्पकः, अग्राह्यः, अनीशकः, महायशाः, अदृश्यरूपः, अद्भयःसंभूतः, हिरण्यगर्भः, विश्वतोमुखः, विश्रुतश्चक्षुः, विश्वतोहस्तः, विश्वतस्पात् , जनयिता, विद्वान् , गन्धर्वः, त्रिपात् , बन्धुः, जनिता, विधाता, विश्ववेदी, प्रजापतिः, सदसस्पतिः,