पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वाभाविकज्ञानबलक्रियः, अपतिः, अनीशः, अलिङ्गः, करणाधिपाधिपः, जनकादिरहितः, सर्वभूतान्तरात्मा, कर्माध्यक्षः.. सर्वभूताधिवासः, साक्षी, चेता, केवलः, निर्गुणः, सर्वचेतनकामविधाता, नित्यचेतनः, एकहंसः, विश्वकृत् , विश्ववित् , आत्मयोनिः, प्रधानक्षेत्रज्ञपतिः, गुणेशः, संसारमोक्षस्थितिबन्धहेतुः, ब्रह्मविधायी, वेदोपदेष्टा, आत्मबुद्धिप्रकाशः, निष्कलः, निष्क्रियः, शान्तः, निरवद्यः, निरञ्जनः, अमृतपरसेतुः, मन्त्रिकोपनिषदि --- अष्टपात् - शुचिः, त्रिसूत्रः, अणुः, निर्गुणः, अजाध्यासकः, स्वच्छन्दः, उदासीनः, षडिंशः, सप्तविंशः, अद्वैतम् , द्वैतम् , त्र्यात्मा, पञ्चात्मा, सप्तात्मा, भगवान् । सुबालोपनिषदि -- नासन्नसन्नसदसत्, सहस्रशीर्षः, सहस्राक्षः, सहस्रपात् , महद्भूतम् , वैश्वानरः, परदेवः, असत् . अजातम् , अभृतम् , अप्रतिष्ठितम् , अशब्दम्, महान् , बृहन् , अप्राणत्वादिमत् , अपारम् , अनिर्देश्यम् , अनपावृतम् , अप्रकाश्यम् , असंवृतम् , चक्षुरादिकरणादिनिविष्टः, सर्वज्ञः, सर्वेश्वरः, सर्वाधिपतिः, अन्तर्यामी, सर्वयोनिः, सर्वसौख्योपास्यमानः, वेदशास्रोपास्यमानः, सर्वान्नः, अनन्नम् , सर्वनयनः, प्रशास्ता, अन्नमयो भूतात्मा, प्राणमय इन्द्रियात्मा, मनोमयः संकल्पात्मा, विज्ञानमयः कालात्मा, आनन्दमयो लयात्मा, ऐक्यरहितः, द्वैतरहितः, मर्त्यभावरहितः, मरणसंबन्धविलयप्रसंगरहितः, नान्तःप्रज्ञः, नबहिःप्रज्ञः, नोभ्यतःप्रज्ञः, नप्रज्ञानधनः, नप्रज्ञः, नाप्रज्ञः, विदितवेद्यरहित , अमूलम् , अनाधारम् , दिव्यः, देवः, एक', नारायणः, धाता, विधाता, कर्ता, विकर्ता, उद्भवः, संभवः, माता, पिता, भ्राता, निवासः, शरणम् , सुहृद् , गतिः, विष्णुः, परमपदवासी, पुरुषः, अमृतत्वस्येशानः, अव्यक्ताक्षरमृत्युप्रभृतिसर्वशरीरी, सर्वान्तरः, सर्वसंचारी सर्ववेद्यः, सर्वभूतान्तरात्मा, अपहत- पाप्मा, अचिन्त्यरूपः, असङ्गः, तेजस्काय, विभ्राजमानः, अशोकम् , अनन्तम् , अभयम् , निर्बीजम् , निर्वाणम् , सत्यः, श्रीमन्नारायणः ।।